१९

01 यदि सोमौ संसुतौ ...{Loading}...

यदि सोमौ संसुतौ स्यातामादितश्चतुर्भिः सम्भारयजुर्भिर्हुत्वा महारात्रे प्रातरनुवाकमुपाकृत्यान्वारब्धे यजमाने जुहोति संवेशायोपवेशाय गायत्रियास्त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूत्यै स्वाहेति १

02 एवं सवनादौसवनादावुत्तरैरुत्तरैश्चतुर्भिः सम्भारयजुर्भिश्छन्दसा ...{Loading}...

एवं सवनादौसवनादावुत्तरैरुत्तरैश्चतुर्भिः सम्भारयजुर्भिश्छन्दसा चोत्तरेणोत्तरेणा पाङ्क्तात् २

03 पञ्चसवनो यज्ञः त्रीणि ...{Loading}...

पञ्चसवनो यज्ञः । त्रीणि सवनान्यवभृथोऽनूबन्ध्येति । पञ्च समिद्धेऽग्नौ हूयन्त प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टमिति ३

04 पुरस्तात्पाशुकात्स्विष्टकृतोऽध्वर्युर्जपत्येतिवन्ति प्रेतिवन्ति वाज्यानि ...{Loading}...

पुरस्तात्पाशुकात्स्विष्टकृतोऽध्वर्युर्जपत्येतिवन्ति प्रेतिवन्ति वाज्यानि ४

05 मरुत्वतीवृषण्वतीर्वा प्रतिपदः ...{Loading}...

मरुत्वतीवृषण्वतीर्वा प्रतिपदः ५

06 अभीवर्तो ब्रह्मसाम ...{Loading}...

अभीवर्तो ब्रह्मसाम ६

07 उभे बृहद्रथन्तरे भवतः ...{Loading}...

उभे बृहद्रथन्तरे भवतः ७

08 यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यङ् ...{Loading}...

यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत । यद्युक्थ्यः षोडशिनम् । यदि षोडश्यतिरात्रम् । यद्यतिरात्रो द्विरात्रम् । यदि द्विरात्रस्त्रिरात्रम् । यदि त्रिरात्र एकस्तोत्रमेव ८

09 अभिजित्कार्योऽभिजित्यै विश्वजित्कार्यो विश्वजित्यै ...{Loading}...

अभिजित्कार्योऽभिजित्यै । विश्वजित्कार्यो विश्वजित्यै । सर्वपृष्ठः सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्यावरुद्ध्या इति विज्ञायते ९

10 सजनीयं शस्यं विहव्यं ...{Loading}...

सजनीयं शस्यं विहव्यं शस्यमगस्त्यस्य कयाशुभीयं निष्केवल्यम् । तानि शंसेत् १०

11 सजनीयम् प्रातःसवनिके वैश्वदेवे ...{Loading}...

सजनीयं प्रातःसवनिके वैश्वदेवे ऽनुप्रोहेत् । विहव्यं माध्यन्दिनीये मरुत्वतीये । अगस्त्यस्य कयाशुभीयं निष्केवल्यं तार्तीयसवनिके वैश्वदेवेऽनुप्रोहेत् ११

इत्येकोनविंशी कण्डिका


  1. Cf. MS I.9.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See TS VII.5.5.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS III. 10.7.2. Cf. JB I.344. The verses containing the word ā are SV II. 10-21. The verses containing pra are Jaiminīya Saṁhita IV.1.7-9; R̥V III.27.1-3. ↩︎ ↩︎ ↩︎

  4. Cf. TS VII.5.5.2. ↩︎