१८

01 य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं ...{Loading}...

य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं व ऋध्यासम् । सोमस्याज्यमसि हविषो हविर्ज्योतिषां ज्योतिः । विश्वेषां वो देवानां देवताभिर्गृह्णामीत्यभिमन्त्र्य सं वः सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं वोऽयमग्निः सिञ्चत्वायुषा च धनेन च । सर्वमायुर्दधातु मे । मान्दा वाशाः । आपो भद्राः । आदित्पश्यामि । आपो हि ष्ठा मयोभुव इत्येताभिः सप्तभिः संसिञ्चेदभि वा मन्त्रयेत १

02 यदि प्रातःसवने प्राग्घोमात्सोममतिरिक्तम् ...{Loading}...

यदि प्रातःसवने प्राग्घोमात्सोममतिरिक्तं पश्येत्तं चमसेष्वभ्युन्नयेदुपजुहुयाद्वा २

03 हुते दृष्ट्वा स्तुतशस्त्रवन्तङ् ...{Loading}...

हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुयात् ३

04 होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति ...{Loading}...

होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति ४

05 गौर्धयति मरुतामिति धयद्वतीषु ...{Loading}...

गौर्धयति मरुतामिति धयद्वतीषु स्तुवीरन् ५

06 अस्ति सोमो अयं ...{Loading}...

अस्ति सोमो अयं सुत इति वैतासु बृहता गौरिवीतेन वा स्तुवीरन् ६

07 ऐन्द्रावैष्णवं होतानुशंसति ...{Loading}...

ऐन्द्रावैष्णवं होतानुशंसति ७

08 इन्द्राविष्णुभ्याम् पीतस्येति भक्षमन्त्रन् ...{Loading}...

इन्द्राविष्णुभ्यां पीतस्येति भक्षमन्त्रं नमति ८

09 यदि माध्यन्दिन एतदेव ...{Loading}...

यदि माध्यन्दिन एतदेव ९

10 स्तोत्रे विकारः बण्महाँ ...{Loading}...

स्तोत्रे विकारः । बण्महाँ असि सूर्येति सौरीषु बृहता गौरिवीतेन वा स्तुवीरन् १०

11 तथैव होतानुशंसति तथा ...{Loading}...

तथैव होतानुशंसति । तथा भक्षमन्त्रः ११

12 यदि तृतीयसवनेऽतिरिच्येतोक्थ्यङ् कुर्वीत ...{Loading}...

यदि तृतीयसवनेऽतिरिच्येतोक्थ्यं कुर्वीत १२

13 यद्युक्थ्ये षोडशिनम् यदि ...{Loading}...

यद्युक्थ्ये षोडशिनम् । यदि षोडशिन्यतिरात्रम् । यद्यतिरात्रे द्विरात्रम् । यदि द्विरात्र एकस्तोत्रमेव १३

14 तत्र वैष्णवीषु शिपिविष्टवतीषु ...{Loading}...

तत्र वैष्णवीषु शिपिविष्टवतीषु बृहता गौरिवीतेन वा स्तुवीरन् १४

15 तथैव होतानुशंसति तथा ...{Loading}...

तथैव होतानुशंसति । तथा भक्षमन्त्रः १५

इत्यष्टादशी कण्डिका इति षष्ठः पटलः