१७

01 श्रुत्कर्णाय कवये वेद्याय ...{Loading}...

श्रुत्कर्णाय कवये वेद्याय नमोभिर्नाकमुपयामि शंसन् । यतो भयमभयं तत्कृधी नोऽग्ने देवानामव हेड इयक्ष्व । अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः । घृतप्रतीको घृतपृष्ठो अग्निर्घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्यजताद्देव देवान् । आयुर्दा अग्ने । इमो अग्ने । सप्त ते अग्ने । मनो ज्योतिर्जुषताम् । त्रयस्त्रिंशत् । यन्मे मनसः । विश्वकर्मा । अग्निं युनज्मि । इन्धानास्त्वा । अग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु । वायुर्न ईडित ईडितव्यैर्देवैरान्तरिक्षैः पातु । सूर्यो न ईडित ईडितव्यैर्देवैर्दिव्यैः पातु । विष्णुर्न ईडित ईडितव्यैर्देवैर्दिश्यैः पातु । अग्निर्यजुर्भिः पूषा स्वगाकारैस्त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मारभध्वं स्वाहेत्येतैस्त्रिभिरनुवाकैरविज्ञातप्रायश्चित्ते सोमे त्रयस्त्रिंशतमाहुतीर्जुहोति १

02 त्रयस्त्रिंशतञ् चाग्नीध्रे यज्ञतनूः ...{Loading}...

त्रयस्त्रिंशतं चाग्नीध्रे यज्ञतनूः २

03 पृथिवि भूवरि सिनीवाल्युरन्ध्र ...{Loading}...

पृथिवि भूवरि सिनीवाल्युरन्ध्र आचित्ते मनस्ते भुवो विवस्त इति वसतीवरीषु सवनीयासु वा विषिक्तासु सप्ताहुतीर्हुत्वा ३

इति सप्तदशी कण्डिका


  1. See KS XXXIV.9; XXXV.1 and XXXV.2 The first section ends with no. 10, the second with no. 19, and the third with no.33. No. 19 and 22 are not found in KS. ↩︎ ↩︎

  2. See XII.6.1-2. The sentence in this Sūtra is incomplete. See the next Sūtra. ↩︎