१६

01 अग्निन् नरो दीधितिभिररण्योर्हस्तच्युती ...{Loading}...

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् । अग्निनाग्निः समिध्यते । सप्त ते अग्ने । मनो ज्योतिर्जुषताम् । त्रयस्त्रिंशत् । यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः । अयं देवो बृहस्पतिः सं तत्सिञ्चतु राधसा । विश्वकर्मा हविरिदं जुषाणः सन्तानैर्यज्ञं समिमं तनोतु । या व्युष्टा उषसो याश्च निम्रुचस्ता सन्दधामि हविषा घृतेन । अयाश्चाग्नेऽसि । त्वं नो अग्ने । स त्वं नो अग्ने । भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषुन् जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः । प्रेद्धो अग्ने दीदिहीत्येषा १

इति षोडशी कण्डिका


  1. See note on the XIV.17.1. ↩︎