१५

01 यद्येनमार्त्विज्याद्वृतं सन्तन् निर्हरेरन्नाग्नीध्रे ...{Loading}...

यद्येनमार्त्विज्याद्वृतं सन्तं निर्हरेरन्नाग्नीध्रे जुहुयाद्दशहोतारं चतुर्गृहीतेनाज्येन पुरस्तात्प्रत्यङ्तिष्ठन्प्रतिलोमं विग्राहम् । प्राणानेवास्योपदासयति । यद्येनं पुनरुपशिक्षेयुराग्नीध्र एव जुहुयाद्दशहोतारं चतुर्गृहीतेनाज्येन पश्चात्प्राङासीनोऽनुलोममविग्राहम् । प्राणानेवास्मै कल्पयतीति विज्ञायते १

02 स यः कामयेत ...{Loading}...

स यः कामयेत प्रियः स्यामिति यं वा कामयेत प्रियः स्यादिति तस्मा एतं स्थागरमलङ्कारं कल्पयित्वा दशहोतारं पुरस्ताद्व्याख्याय चतुर्होतारं दक्षिणतः पञ्चहोतारं पश्चात्षड्ढोतारमुत्तरतः सप्तहोतारमुपरिष्टात्सम्भारैश्च पत्निभिश्च मुखेऽलङ्कृत्यास्यार्धं व्रजेत् । प्रियो हैव भवतीति विज्ञायते २

03 त इमे चतुर्होतारो ...{Loading}...

त इमे चतुर्होतारो यत्र होमार्थाः सग्रहाः सस्वाहाकारास्तत्र प्रयुज्येरन् । यत्राहोमार्था अग्रहा अस्वाहाकाराः ३

04 यत्र जपा याजमानाः ...{Loading}...

यत्र जपा याजमानाः ४

05 तेषां ये विहारसंयुक्ता ...{Loading}...

तेषां ये विहारसंयुक्ता आहिताग्नेस्तान्प्रतीयात् । उभयोरितरान् ५

इति पञ्चदशी कण्डिका इति पञ्चमः पटलः


  1. viz. one who has taken him out. ↩︎ ↩︎ ↩︎ ↩︎

  2. TB II.3.2.1-2. ↩︎ ↩︎ ↩︎

  3. Cf. TB II.3.10.1-3. ↩︎