१४

01 यद्वाचः क्रूरन् तेन ...{Loading}...

यद्वाचः क्रूरं तेन वषट्करोति । वाच एवैनं क्रूरेण प्रवृश्चति । ताजगार्तिमार्छतीति विज्ञायते १

02 यः कामयेत वीरो ...{Loading}...

यः कामयेत वीरो म आजायेतेति स चतुर्होतारं जुहुयाच्चतुर्गृहीतेनाज्येन । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण । अस्य वीरो जायते २

03 न त्वेनमपरोऽनुजायते ...{Loading}...

न त्वेनमपरोऽनुजायते ३

04 वरो दक्षिणा ...{Loading}...

वरो दक्षिणा ४

05 एतेनैव चतुर्होत्रा राजानं ...{Loading}...

एतेनैव चतुर्होत्रा राजानं सङ्ग्रामे संयत्ते याजयेत् ५

06 यत्तत्र विन्देरंस्ततो द्वादशशतन् ...{Loading}...

यत्तत्र विन्देरंस्ततो द्वादशशतं दक्षिणाः ६

07 पञ्चहोत्रा पशुकामं याजयेत् ...{Loading}...

पञ्चहोत्रा पशुकामं याजयेत् ७

08 चतुर्गृहीतेनाज्येन अर्धं वा ...{Loading}...

चतुर्गृहीतेनाज्येन । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण । चतस्रो दक्षिणा ददात्यश्वं हिरण्यं गां वास इति ८

09 एतेनैव दक्षिणावर्जमामयाविनं स्वर्गकामं ...{Loading}...

एतेनैव दक्षिणावर्जमामयाविनं स्वर्गकामं वा याजयेत् ९

10 मनसा स्वर्गकामस्य जुहुयात् ...{Loading}...

मनसा स्वर्गकामस्य जुहुयात् १०

11 सप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्गृहीतेनाज्येन ...{Loading}...

सप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्गृहीतेनाज्येन । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण ११

12 यः कामयेत बहोर्भूयान्स्यामिति ...{Loading}...

यः कामयेत बहोर्भूयान्स्यामिति स दशहोतारं प्रयुञ्जीत । यः कामयेत वीरो म आजायेतेति स चतुर्होतारम् । यः कामयेत पशुमान्स्यामिति स पञ्चहोतारम् । यः कामयेतर्तवो मे कल्पेरन्निति स षड्ढोतारम् । यः कामयेत सोमपः सोमयाजी स्यामा मे सोमपः सोमयाजी जायेतेति स सप्तहोतारम् १२

13 अथैष ऋतुमुखीयः पड्ढोता ...{Loading}...

अथैष ऋतुमुखीयः पड्ढोता वाग्घोतेति । तस्य वदत्यृतुमुखऋतुमुखे जुहुयादिति । स सार्वकामः १३

इति चतुर्दशी कण्डिका


  1. TB II.2.1.7 (TS III.4.8.5). The cruel part of the speech means the expressions khaṭ, phaṭ etc. (See TĀ IV.27). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB II.3.2.2. Here a performer of an expiation is understood. ↩︎