१३

01 संवत्सरञ् चतुर्णामेको नाश्नीयात् ...{Loading}...

संवत्सरं चतुर्णामेको नाश्नीयात् । तद्व्रतमिति विज्ञायते चतुर्होतॄणामनुब्रुवाणस्य १

02 एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः ...{Loading}...

एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः २

03 यः प्रजया पशुभिर्न ...{Loading}...

यः प्रजया पशुभिर्न प्रजायेत स द्वादशाहानि तप्तमुदकं पिबन्बरासीं वसानोऽधः शयीत ३

04 द्वादश्याः प्रातः प्राङुत्क्रम्य ...{Loading}...

द्वादश्याः प्रातः प्राङुत्क्रम्य प्राण्यापान्येन्द्रं गच्छ स्वाहेत्यपान्य दशहोतारं व्याख्याय चतुर्होतारं जुहुयाच्चतुर्गृहीतेनाज्येन ४

05 अर्धं वा पूर्वेण ...{Loading}...

अर्धं वा पूर्वेण ग्रहेण । अर्धमुत्तरेण ५

06 यः कामयेत प्रजायेयेति ...{Loading}...

यः कामयेत प्रजायेयेति स द्वादशगृहीतेन स्रुचं पूरयित्वा दशहोतारं मनसानुद्रुत्य दर्भस्तम्बे सग्रहं जुहुयात् । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण ६

07 यम् ब्राह्मणं विद्यां ...{Loading}...

यं ब्राह्मणं विद्यां विद्वांसं यशो नर्छेत्सोऽरण्यं परेत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्य चतुर्होतॄन्व्याचक्षीत ७

08 सर्वान्ससम्भारयजुष्कानित्याश्मरथ्यः होतॄनित्यालेखनः ...{Loading}...

सर्वान्ससंभारयजुष्कानित्याश्मरथ्यः । होतॄनित्यालेखनः ८

09 यो दक्षिणत आस्ते ...{Loading}...

यो दक्षिणत आस्ते तस्मै वरं ददाति ९

10 अथैता देवानाम् पत्नयः ...{Loading}...

अथैता देवानां पत्नयः । ताभिः प्रजाकामं पशुकामं वा याजयेत् १०

11 अन्तरा त्वष्टारन् देवानाञ् ...{Loading}...

अन्तरा त्वष्टारं देवानां च पत्नीश्चत्वारिचत्वारि पदानि प्रतिसङ्ख्याय यजेत ११

12 यदि संवत्सरन् न ...{Loading}...

यदि संवत्सरं न जायेत तत्परो न सूर्क्षेत् १२

13 दशहोत्राभिचरन्यजेत् ...{Loading}...

दशहोत्राभिचरन्यजेत् १३

14 स्वकृत इरिणे प्रदरे ...{Loading}...

स्वकृत इरिणे प्रदरे वा जुहुयात् १४

इति त्रयोदशी कण्डिका