१२

01 स पूर्ववज्जनयज्जन्तवे धनं ...{Loading}...

स पूर्ववज्जनयज्जन्तवे धनं समानमज्मा परियाति जागृविरिति १

02 यत्किञ्चाप्राणत्तत्सर्वमुत्तानस्त्वाङ्गीरसः प्रतिगृह्णा त्वित्येव ...{Loading}...

यत्किंचाप्राणत्तत्सर्वमुत्तानस्त्वाङ्गीरसः प्रतिगृह्णा त्वित्येव प्रतिगृह्णीयात् । यद्वानाम्नातमन्त्रम् २

03 सर्वत्र पुरस्तात्सावित्र उपरिष्टादन्वाधिः ...{Loading}...

सर्वत्र पुरस्तात्सावित्र उपरिष्टादन्वाधिः ३

04 ग्नास्त्वाकृन्तन्नपसस्त्वातन्वत वरूत्रयस्त्वावयन्नित्येतद्वासस्यनुषजति पुरस्ताद्दैवतात् ...{Loading}...

ग्नास्त्वाकृन्तन्नपसस्त्वातन्वत वरूत्रयस्त्वावयन्नित्येतद्वासस्यनुषजति पुरस्ताद्दैवतात् ४

05 त इमे तान्त्रीणान् ...{Loading}...

त इमे तान्त्रीणां दक्षिणानां प्रतिग्रहणाः स्युः ५

06 विज्ञायते च देवा ...{Loading}...

विज्ञायते च । देवा वै वरुणमयाजयन् । स यस्यैयस्यै देवतायै दक्षिणामनयत्तामव्लीनात् । ते ऽब्रुवन्व्यावृत्य प्रतिगृह्णाम तथा नो दक्षिणा न व्लेष्यतीति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान्दक्षिणा नाव्लीनात् । य एवंविद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा व्लीनातीति । तान्त्रीरेवाधिकुरुते ६

07 बर्हिषा प्रतीयाद्गां वाश्वं ...{Loading}...

बर्हिषा प्रतीयाद्गां वाश्वं वा ७

08 अन्नेन पुरुषं हस्तिनं ...{Loading}...

अन्नेन पुरुषं हस्तिनं वा ८

09 गन्धैः प्रियवद्येन च ...{Loading}...

गन्धैः प्रियवद्येन च तल्पम् ९

इति द्वादशी कण्डिका इति चतुर्थः पटलः


  1. See Sūtra 4 in XIV. 11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. tenāmr̥tatvamaśyām… pratigr̥hṇātu. ↩︎ ↩︎