११

01 दक्षिणाम् प्रतिग्रहीष्यन्सप्तदशकृत्वोऽपान्य व्यावृत्य ...{Loading}...

दक्षिणां प्रतिग्रहीष्यन्सप्तदशकृत्वोऽपान्य व्यावृत्य प्रतिगृह्णीयात् १

02 देवस्य त्वा सवितुः ...{Loading}...

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे । अग्नये हिरण्यं तेनामृतत्वमश्याम् । वयो दात्रे मयो मह्यमास्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता कामः प्रतिग्रहीता । कामं समुद्रमाविश कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा उत्तानस्त्वाङ्गीरसः प्रतिगृह्णात्विति २

03 सोमाय वासः रुद्राय ...{Loading}...

सोमाय वासः । रुद्राय गाम् । वरुणायाश्वम् । प्रजापतये पुरुषम् । मनवे तल्पम् । त्वष्ट्रेऽजाम् । अग्नये वा । पूष्णेऽविम् । निरृत्या अश्वतरगर्दभौ हिमवतो हस्तिनम् । गन्धर्वाप्सराभ्यः स्रगलङ्करणे । विश्वेभ्यो देवेभ्यो धान्यम् । वाचेऽन्नम् । ऊर्जे वा । ब्रह्मण ओदनम् । समुद्रायापः । उत्तानायाङ्गीरसायानः । वैश्वानराय रथम् ३

04 वैश्वानर्यर्चा रथम् प्रतिगृह्णीयाद्वैश्वानरः ...{Loading}...

वैश्वानर्यर्चा रथं प्रतिगृह्णीयाद्वैश्वानरः प्रत्नथा नाकमारुहद्दिवः पृष्ठं भन्दमानः सुमन्मभिः ४

इत्येकादशी कण्डिका


  1. Cf. TB II.2.5.1; II.3.2.1. See also XIV.12.6. ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ III. 10; see I.7.6. The verse is completed in the next Sūtra. ↩︎