१०

01 रश्मिरसि क्षयाय त्वा …{Loading}…

रश्मिरसि क्षयाय त्वा क्षयं जिन्वॐ स्तुतेति प्रसौति १

02 सर्वस्तोत्राणामेष कल्पः …{Loading}…

सर्वस्तोत्राणामेष कल्पः २

03 उत्तरमुत्तरं स्तोमभागानान् दधाति …{Loading}…

उत्तरमुत्तरं स्तोमभागानां दधाति ३

04 द्वादशाग्निष्टोमे पञ्चदशोक्थ्ये षोडश …{Loading}…

द्वादशाग्निष्टोमे । पञ्चदशोक्थ्ये । षोडश षोडशिनि । सप्तदश वाजपेये । एकान्नत्रिंशतमतिरात्रे । त्रयस्त्रिंशतमप्तोर्यामे ४

05 स्तुते पवमाने यथेतङ् …{Loading}…

स्तुते पवमाने यथेतं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति । सवनीयस्या वपाया होमादास्ते ५

06 हुतायाम् मार्जयित्वा प्रातःसवनायसम् …{Loading}…

हुतायां मार्जयित्वा प्रातःसवनायसं प्रसर्पत्सु ग्रहावकाशैः शृतङ्कारैश्चोपस्थायोत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण प्रशास्तुर्धिष्णियं दक्षिणातिक्रम्योपविशति ६

07 यत्रास्मै ब्रह्मचमसमाहरति तम् …{Loading}…

यत्रास्मै ब्रह्मचमसमाहरति तं प्रतिगृह्य भक्षयति यथेतरे चमसान् ७

08 उपाकृते स्तोत्रे वाचं …{Loading}…

उपाकृते स्तोत्रे वाचं यच्छत्या शस्त्रयाज्यायाः ८

09 संस्थिते सवने यथेतम् …{Loading}…

संस्थिते सवने यथेतं प्रतिनिष्क्रामति ९

10 एवं विहित उत्तरयोः …{Loading}…

एवं विहित उत्तरयोः सवनयोः सञ्चरो ब्रह्मत्वं च १०

11 आध्वर्यव एवातोऽन्यानि कर्माणि …{Loading}…

आध्वर्यव एवातोऽन्यानि कर्माणि ब्रह्मण आम्नातानि भवन्ति ११

12 अवभृथङ् गच्छतान् दक्षिणतो …{Loading}…

अवभृथं गच्छतां दक्षिणतो गच्छति १२

13 एवं विहितं सर्वसोमानाम् …{Loading}…

एवं विहितं सर्वसोमानां ब्रह्मत्वम् १३

इति दशमी कण्डिका इति तृतीयः पटलः


  1. TS IV.4.1.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XIII.2.7. ↩︎

  3. See XII.18.15. ↩︎