०९

01 एवावन्दस्वेत्युपस्थे राजानङ् कुरुते ...{Loading}...

एवावन्दस्वेत्युपस्थे राजानं कुरुते १

02 हुते पूर्वो निष्क्रम्यान्वङ्ङग्नेरेति ...{Loading}...

हुते पूर्वो निष्क्रम्यान्वङ्ङग्नेरेति २

03 आग्नीध्रीयम् प्राप्य प्रतिप्रस्थात्रे ...{Loading}...

आग्नीध्रीयं प्राप्य प्रतिप्रस्थात्रे राजानं प्रदायोत्तरेणाग्नीध्रीयं दक्षिणातिक्रम्योपविशति । पूर्ववदुपस्थे राजानं कुरुते । हुते पूर्वो निष्क्रम्यापरया द्वारा हविर्धानं राजानं प्रपाद्याध्वर्यवे प्रदायोत्तरेण हविर्धानं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति । अग्नीषोमीयस्या वपाया होमादास्ते । हुतायां मार्जयते । वसतीवरीषु परिह्रियमाणासु दक्षिणात आस्ते । महारात्रे बुध्यमानेषु बुध्यते । उपाकृते प्रातरनुवाके वाचं यच्छत्या परिधानीयायाः । सवनीयासु प्रपाद्यमानासु पूर्वया द्वारा हविर्धानं प्रविश्याग्रेण खरं दक्षिणातिक्रम्योपविशति ३

04 राजनि मीयमानेऽभिषूयमाणे ग्रहेषु ...{Loading}...

राजनि मीयमानेऽभिषूयमाणे ग्रहेषु च गृह्यमाणेषु वाचं यच्छत्याग्रयणस्य ग्रहणात् ४

05 वैप्रुषाञ्जुह्वत्सु जुहोति ...{Loading}...

वैप्रुषाञ्जुह्वत्सु जुहोति ५

06 पवमानेषु समन्वारब्धः सर्पति ...{Loading}...

पवमानेषु समन्वारब्धः सर्पति ६

07 ब्रह्मन्स्तोष्यामः प्रशास्तरित्युच्यमाने देव ...{Loading}...

ब्रह्मन्स्तोष्यामः प्रशास्तरित्युच्यमाने देव सवितरेतत्ते प्राहेत्यनुद्रुत्य ७

इति नवमी कण्डिका


  1. Cp. R̥V VIII.42.2; TB II.5.8.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XI.16.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XI.20.3; ↩︎

  4. See XI.20.3. ↩︎

  5. See XI.21.1-6. ↩︎

  6. See XI.1.1. ↩︎

  7. See XII.3.15. ↩︎

  8. Cf. Chāndogya-upaniṣad IV.16.4. ↩︎

  9. See XII.7.2. ↩︎