०८

01 वासिष्ठो ब्रह्मा ज्योतिष्टोमे ...{Loading}...

वासिष्ठो ब्रह्मा ज्योतिष्टोमे १

02 यो वा कश्चित्स्तोमभागान्विद्यात् ...{Loading}...

यो वा कश्चित्स्तोमभागान्विद्यात् २

03 आध्वर्यवेषु कर्मसु स्तुतशस्त्रयोश्च ...{Loading}...

आध्वर्यवेषु कर्मसु स्तुतशस्त्रयोश्च वाचं यच्छति । अन्तर्धौ च ३

04 यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं ...{Loading}...

यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं व्याहृतीश्च जपित्वा वाचं यच्छेत् ४

05 राजनि मीयमाने महावेद्यामुत्तरवेद्याञ् ...{Loading}...

राजनि मीयमाने महावेद्यामुत्तरवेद्यां च क्रियमाणायामग्नौ मीयमाने कृष्यमाण ओप्यमाने चितेश्चितेरुपधीयमानायाः सञ्चितकर्मसूखाकर्मसु च क्रियमाणेषु दक्षिणत आस्ते ५

06 राजन्योह्यमानेऽग्नौ प्रणीयमान उखामच्छ ...{Loading}...

राजन्योह्यमानेऽग्नौ प्रणीयमान उखामच्छ गच्छतामोह्यमानायां वसतीवरीः सवनीयाश्चाच्छ गच्छतामाह्रियमाणासु नैरृतीरुपधास्यतां चित्यग्नीनां च प्रणीयमानानां दक्षिणत एति ६

07 सदोहविर्धानेषु सम्मीयमानेष्वन्तरा चात्वालोत्करावन्ववेत्यापरेणोत्तरवेदिन् ...{Loading}...

सदोहविर्धानेषु सम्मीयमानेष्वन्तरा चात्वालोत्करावन्ववेत्यापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति ७

08 आ वैसर्जनकालादास्ते ...{Loading}...

आ वैसर्जनकालादास्ते ८

09 होष्यमाणेषु प्रत्यतिक्रम्योत्तरेण हविर्धानङ् ...{Loading}...

होष्यमाणेषु प्रत्यतिक्रम्योत्तरेण हविर्धानं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्य पूर्वया द्वारा प्राग्वंशं प्रविश्यापरेण शालामुखीयं दक्षिणातिक्रम्योपविशति ९

इत्यष्टमी कण्डिका


  1. Cf. TS III.5.2.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See X.4.11. ↩︎ ↩︎ ↩︎

  3. See VII.3.10ff. ↩︎ ↩︎

  4. See XVI.17.8ff. ↩︎ ↩︎

  5. See XVI.19.2. ↩︎ ↩︎

  6. See XVI.19.11. ↩︎ ↩︎

  7. See XVI.21.1ff. ↩︎ ↩︎

  8. See XVI.35.4. ↩︎ ↩︎

  9. See XV.1.10ff; XVI.2.1ff. ↩︎