०७

01 आरण्यम् पशुमाखुं वोपशये ...{Loading}...

आरण्यं पशुमाखुं वोपशये निर्दिशेत् १

02 असौ ते पशुरिति ...{Loading}...

असौ ते पशुरिति वा द्वेष्यं मनसा ध्यायन् २

03 यदि न द्विष्यादाखुस्ते ...{Loading}...

यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात् ३

04 प्रतिपशु बर्हींषि वपाश्रपण्यः ...{Loading}...

प्रतिपशु बर्हींषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाश्च ४

05 तन्त्रमग्नेर्हरणन् तथाध्रिगुः सञ्ज्ञप्तहोमो ...{Loading}...

तन्त्रमग्नेर्हरणं तथाध्रिगुः सञ्ज्ञप्तहोमो रशनानामुदसनं परिवप्यौ वपाश्रपणीनामनुप्रहरणमभिहोमो मार्जनं च ५

06 अभ्यावर्तते मनोता ...{Loading}...

अभ्यावर्तते मनोता ६

07 तन्त्रं वा ...{Loading}...

तन्त्रं वा ७

08 सर्वेषान् त्र्यङ्गानि समवत्तञ् ...{Loading}...

सर्वेषां त्र्यङ्गानि समवत्तं च ८

09 उद्रेकान्समवनीय दिशः प्रति ...{Loading}...

उद्रेकान्समवनीय दिशः प्रति यजति ९

10 उत्तमे पशौ वनस्पतिं ...{Loading}...

उत्तमे पशौ वनस्पतिं यजति । स्विष्टकृतं च १०

11 सर्वेषाङ् गुदकाण्डैरुपयज उपयजति ...{Loading}...

सर्वेषां गुदकाण्डैरुपयज उपयजति । जाघनीभिश्च पत्नीः संयाजयन्ति ११

12 अनूबन्ध्यावपायां हुतायामग्रेण शालामुखीयम् ...{Loading}...

अनूबन्ध्यावपायां हुतायामग्रेण शालामुखीयं पात्नीवतं मिनोत्यधोनाभिमनवस्तीर्णेऽचषालम् १२

13 तस्मिंस्त्वाष्ट्रं साण्डं लोमशम् ...{Loading}...

तस्मिंस्त्वाष्ट्रं साण्डं लोमशं पिङ्गलं पशुमुपाकृत्य पर्यग्निकृतमुत्सृज्याज्येन शेषं संस्थापयेत् १३

14 यावन्ति पशोरवदानानि स्युस्तावत्कृत्व ...{Loading}...

यावन्ति पशोरवदानानि स्युस्तावत्कृत्व आज्यस्यावद्येत् १४

15 पशुधर्माज्यम् भवति ...{Loading}...

पशुधर्माज्यं भवति १५

16 शालामुखीये प्रचरन्तीति विज्ञायते ...{Loading}...

शालामुखीये प्रचरन्तीति विज्ञायते १६

17 अपि वा अर्यग्निकृतमेवोत्सृजेत् ...{Loading}...

अपि वा अर्यग्निकृतमेवोत्सृजेत् । न संस्थापयेत् १७

18 पशुपुरोडाशाद्यनूबन्ध्यायाः शेषं संस्थापयेत् ...{Loading}...

पशुपुरोडाशाद्यनूबन्ध्यायाः शेषं संस्थापयेत् १८

19 यदि कापेयी पश्वेकादशिनी ...{Loading}...

यदि कापेयी पश्वेकादशिनी स्यादाग्नेयमभित ऐन्द्रौ पशू भवतः । उत्तरतः सारस्वतं सौम्यं पौष्णं बार्हस्पत्यमिति । दक्षिणतः सावित्रं वैश्वदेवं मारुतं वारुणमिति १९

20 तामेताङ् कापेया विदुः ...{Loading}...

तामेतां कापेया विदुः । तामतिरात्रचरम आलभेत २०

21 साहीनेषु शब्दसंयोगात् ...{Loading}...

साहीनेषु शब्दसंयोगात् २१

22 सत्त्रीयेतरा भवति ...{Loading}...

सत्त्रीयेतरा भवति २२

इति सप्तमी कण्डिका इति द्वितीयः पटलः


  1. Cf. TS VI.6.4.5-6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VII.8.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See VII.17.3. ↩︎ ↩︎ ↩︎

  4. See VII.17.6. ↩︎ ↩︎ ↩︎

  5. See VII.20.9. ↩︎

  6. See VII.21.4. ↩︎

  7. See VII.21.4. ↩︎

  8. See VII.21.6. ↩︎