०६

01 सर्वान्समान्प्रतिष्ठाकामस्य …{Loading}…

सर्वान्समान्प्रतिष्ठाकामस्य १

02 ये त्रयो मध्यमास्तान्समान्पशुकामस्य …{Loading}…

ये त्रयो मध्यमास्तान्समान्पशुकामस्य । व्यतिषजेदितरान् २

03 आराग्रामभिचरतः …{Loading}…

आराग्रामभिचरतः ३

04 मध्य उन्नतो भवति …{Loading}…

मध्य उन्नतो भवति । अनुपूर्वमन्तौ निनतौ ४

05 समवस्राविणीं वृष्टिकामस्य मध्ये …{Loading}…

समवस्राविणीं वृष्टिकामस्य । मध्ये निनता भवति । अनुपूर्वमन्तावुन्नतौ ५

06 व्यतिषक्ताम् भ्रातृव्यतः …{Loading}…

व्यतिषक्तां भ्रातृव्यतः ६

07 गर्तमितमित्युक्तम् …{Loading}…

गर्तमितमित्युक्तम् ७

08 यदि कामयेत क्षत्रं …{Loading}…

यदि कामयेत क्षत्रं विश ओजीयः स्यादित्यग्निष्ठाद्दक्षिणान्वर्षीयसो मिनुयात् ८

09 विट् क्षत्रादित्येतद्वा विपरीतम् …{Loading}…

विट् क्षत्रादित्येतद्वा विपरीतम् ९

10 उपरसम्मिताम् मिनुयात्पितृलोककामस्य मध्येन …{Loading}…

उपरसम्मितां मिनुयात्पितृलोककामस्य । मध्येन सम्मितां रशनसम्मितां च मनुष्यलोककामस्य । चषालसंमितामिन्द्रियकामस्येति १०

11 आयामत उपराणि समानि …{Loading}…

आयामत उपराणि समानि स्युः । तिर्यक्तो मध्यानि रशनाश्च । प्रथिम्नश्चषालानि ११

12 उपशयन् द्वाभ्यां रशनाभ्याम् …{Loading}…

उपशयं द्वाभ्यां रशनाभ्यां परिवीयाग्रेण दक्षिणं यूपं प्राञ्चं निदधाति । दक्षिणेन वा । इदमहममुमामुष्यायणमिन्द्रस्य वज्रेणाभिनिदधामीति द्वेष्यं मनसा ध्यायन् १२

13 आग्नेयङ् कृष्णग्रीवमग्निष्ठ उपाकरोति …{Loading}…

आग्नेयं कृष्णग्रीवमग्निष्ठ उपाकरोति । उत्तरे सारस्वतीं मेषीम् । दक्षिणे सौम्यं बभ्रुम् १३

14 एवं व्यत्यासन् दक्षिणापवर्गान्पशूनुपाकरोति …{Loading}…

एवं व्यत्यासं दक्षिणापवर्गान्पशूनुपाकरोति १४

15 वारुणमन्ततो दक्षिणत उदञ्चम् …{Loading}…

वारुणमन्ततो दक्षिणत उदञ्चम् १५

16 यदि कामयेत योऽवगतः …{Loading}…

यदि कामयेत योऽवगतः सोऽपरुध्यतामित्युक्तम् १६

इति षष्ठी कण्डिका


  1. Cf. TS VI.6.4.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XXIX.8. ↩︎ ↩︎

  3. Cf. TS VI.6.4.4. ↩︎

  4. Cf. TS VI.6.4.4; cp. MS IV.7.9. ↩︎