०५

01 क्रतुपशव ऐकादशिनाश्च विकल्पन्ते …{Loading}…

क्रतुपशव ऐकादशिनाश्च विकल्पन्ते १

02 तेषां समवाये यथाचोदितं …{Loading}…

तेषां समवाये यथाचोदितं संस्काराः २

03 तन्त्रमङ्गानि विभवन्ति …{Loading}…

तन्त्रमङ्गानि विभवन्ति ३

04 प्रत्यक्षार्थानि प्रतिसंस्कारमध्यावर्तन्ते …{Loading}…

प्रत्यक्षार्थानि प्रतिसंस्कारमध्यावर्तन्ते ४

05 यथार्थमूहः …{Loading}…

यथार्थमूहः ५

06 यूपाहुतिं हुत्वाग्निष्ठप्रथमांस्त्रयोदश यूपान्मन्त्रेण …{Loading}…

यूपाहुतिं हुत्वाग्निष्ठप्रथमांस्त्रयोदश यूपान्मन्त्रेण छिनत्ति ६

07 सर्वेषां शकलाहरणाव्रश्चनहोमाः …{Loading}…

सर्वेषां शकलाहरणाव्रश्चनहोमाः ७

08 सर्वमुपशयन् तक्षति …{Loading}…

सर्वमुपशयं तक्षति ८

09 तथा पात्नीवतञ् छिनत्ति …{Loading}…

तथा पात्नीवतं छिनत्ति यथाधो नाभिसम्मितो भविष्यतीति ९

10 यत्प्राग्वेदिसम्मानात्तत्कृत्वा दशरथाक्षामेकादशोपरां रज्जुम् …{Loading}…

यत्प्राग्वेदिसम्मानात्तत्कृत्वा दशरथाक्षामेकादशोपरां रज्जुं मीत्वा तस्याश्चतुर्विंशेन भागेन वेदिं मिमीते १०

11 प्रक्रमस्थानीया भवति …{Loading}…

प्रक्रमस्थानीया भवति ११

12 अग्निष्ठन् द्वाभ्यां रशनाभ्याम् …{Loading}…

अग्निष्ठं द्वाभ्यां रशनाभ्यां परिवीयैकादशिनी रशनाः परिवीयाग्निष्ठे वासयति १२

13 द्विरशना यूपाः …{Loading}…

द्विरशना यूपाः १३

14 श्वोभूत आश्विनङ् गृहीत्वा …{Loading}…

श्वोभूत आश्विनं गृहीत्वा यूपान्सम्मिनोति १४

15 सह वाग्निष्ठेन …{Loading}…

सह वाग्निष्ठेन १५

16 तन्त्रमभ्रेरादानम् परिलेखनोऽभ्यावर्तते …{Loading}…

तन्त्रमभ्रेरादानं परिलेखनोऽभ्यावर्तते १६

17 रथाक्षमात्राणि यूपान्तरालानि …{Loading}…

रथाक्षमात्राणि यूपान्तरालानि १७

18 अग्निष्ठाद्दक्षिणम् परिलिख्योत्तरमग्निष्ठात्परिलिखति …{Loading}…

अग्निष्ठाद्दक्षिणं परिलिख्योत्तरमग्निष्ठात्परिलिखति १८

19 एवं व्यत्यासमुदगपवर्गान्यूपान्सम्मिनोति …{Loading}…

एवं व्यत्यासमुदगपवर्गान्यूपान्संमिनोति १९

20 प्रतियूपं स्वरवः …{Loading}…

प्रतियूपं स्वरवः २०

21 दक्षिणत उन्नता भवति …{Loading}…

दक्षिणत उन्नता भवति २१

22 उत्तरत उन्नताम् मिनुयात्पितृलोककामस्य …{Loading}…

उत्तरत उन्नतां मिनुयात्पितृलोककामस्य २२

इति पञ्चमी कण्डिका


  1. See XII.18.12-14. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Enumerated in TS V.5.22: a he-goat with black neck for Agni, a ewe for Sarasvatī, a brown he-goat for Soma, a grey he-goat for Pūṣan, a he-goat with white back for Br̥haspati, a spotted he-goat for Viśvedevas, a reddish he-goat for Indra, a speckled he-goat for Maruts, a mixed-coloured he-goat for Indra and Agni, a he-goat with black below for Savitr̥ and a wether for Varuṇa. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. The word iti (thus) indicates that this is a quotation. For the sentence cp. MS IV.8.1. ↩︎