०४

01 अथ प्रतिप्रस्थाताश्विनन् द्विकपालन् ...{Loading}...

अथ प्रतिप्रस्थाताश्विनं द्विकपालं निर्वपति १

02 होतृचमसमुख्यान्सन्धिचमसानुन्नयति ...{Loading}...

होतृचमसमुख्यान्सन्धिचमसानुन्नयति २

03 त्रिवृद्राथन्तरः सन्धिः ...{Loading}...

त्रिवृद्राथन्तरः सन्धिः ३

04 आश्विनम् परःसहस्रं शस्त्रम् ...{Loading}...

आश्विनं परःसहस्रं शस्त्रं भवति ४

05 तदुदित आदित्ये परिधीयते ...{Loading}...

तदुदित आदित्ये परिधीयते ५

06 तस्मिन्परिधिते होतृचमसमध्वर्युरादत्ते चमसांश्चमसाध्वर्यवः ...{Loading}...

तस्मिन्परिधिते होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । पुरोडाशं प्रतिप्रस्थाता ६

07 अश्विभ्यान् तिरोअह्नियानां सोमानामनुब्रूह्यश्विभ्यान् ...{Loading}...

अश्विभ्यां तिरोअह्नियानां सोमानामनुब्रूह्यश्विभ्यां तिरोअह्नियानां सोमानां प्रेष्येति सम्प्रैषौ ७

08 तिरोअह्नियान्सोमान्प्रस्थितान्प्रेष्येति वा ...{Loading}...

तिरोअह्नियान्सोमान्प्रस्थितान्प्रेष्येति वा ८

09 न वा प्रस्थापयेत् ...{Loading}...

न वा प्रस्थापयेत् ९

10 सह सोमैः पुरोडाशम् ...{Loading}...

सह सोमैः पुरोडाशं प्रतिप्रस्थाता सर्वहुतं जुहोति १०

11 पङ्क्तिश्छन्दस इति भक्षमन्त्रन् ...{Loading}...

पङ्क्तिश्छन्दस इति भक्षमन्त्रं नमति ११

12 अप्तोर्यामश्चेत्सन्धिचमसानुन्नयंश्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति ...{Loading}...

अप्तोर्यामश्चेत्सन्धिचमसानुन्नयंश्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति १२

13 यथा प्रथमे रात्रिपर्याये ...{Loading}...

यथा प्रथमे रात्रिपर्याये तथा मुख्या भवन्ति १३

14 आग्नेयान्प्रथमानुन्नयति ऐन्द्रान्द्वितीयान् वैश्वदेवांस्तृतीयान् ...{Loading}...

आग्नेयान्प्रथमानुन्नयति । ऐन्द्रान्द्वितीयान् । वैश्वदेवांस्तृतीयान् । वैष्णवांश्चतुर्थान् १४

15 तेषां सन्धिचमसवत्प्रचरणकल्प इत्येके ...{Loading}...

तेषां सन्धिचमसवत्प्रचरणकल्प इत्येके १५

16 अतिच्छन्दाश्छन्दस इति सर्वत्र ...{Loading}...

अतिच्छन्दाश्छन्दस इति सर्वत्र भक्षमन्त्रं नमति १६

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. Cf. KB XVII.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TMB IX.1.28. The verses are SV II.99-104. ↩︎