०३

01 समयाविषिते सूर्ये हिरण्येन ...{Loading}...

समयाविषिते सूर्ये हिरण्येन षोडशिनः स्तोत्रमुपाकरोति १

02 बर्हिःस्थाने भवति ...{Loading}...

बर्हिःस्थाने भवति २

03 श्वेतमश्वम् पुरस्ताद्धारयन्ति अरुणपिशङ्गं ...{Loading}...

श्वेतमश्वं पुरस्ताद्धारयन्ति । अरुणपिशङ्गं वा ३

04 ओथा मोद इव ...{Loading}...

ओथा मोद इव मदे मदा मोद इवोमथेति व्यतिषक्त उभयतोमोदः प्रतिगर आनुष्टुग्भ्यः ४

05 इन्द्राधिपतेऽधिपतिस्त्वन् देवानामस्यधिपतिम् मामायुष्मन्तं ...{Loading}...

इन्द्राधिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति हुत्वेन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतम् । तयोरनु भक्षं भक्षयामि वाग्जुषाणा सोमस्य तृप्यत्विति षोडशिनं भक्षयति । आदित्यवद्गणेन चमसान् ५

06 अनुष्टुप् छन्दस इति ...{Loading}...

अनुष्टुप् छन्दस इति भक्षमन्त्रं नमति ६

07 अरुणपिशङ्गोऽश्वो दक्षिणा अश्वतरी ...{Loading}...

अरुणपिशङ्गोऽश्वो दक्षिणा । अश्वतरी वा ७

08 अतिरात्रश्चेत्षोडशिचमसानुन्नयंस्त्रयोदशभ्यश्चमसगणेभ्यो राजानमतिरेचयति ...{Loading}...

अतिरात्रश्चेत्षोडशिचमसानुन्नयंस्त्रयोदशभ्यश्चमसगणेभ्यो राजानमतिरेचयति ८

09 षोडशिना प्रचर्य रात्रिपर्यायैः ...{Loading}...

षोडशिना प्रचर्य रात्रिपर्यायैः प्रचरति ९

10 होतृचमसमुख्यः प्रथमो गणः ...{Loading}...

होतृचमसमुख्यः प्रथमो गणः । मैत्रावरुणचममुख्यो द्वितीयः । ब्राह्मणाच्छंसिचमसमुख्यस्तृतीयः । अच्छावाकचमसमुख्यश्चतुर्थः १०

11 इन्द्राय त्वापिशर्वरायेति मुख्यम्मुख्यञ् ...{Loading}...

इन्द्राय त्वापिशर्वरायेति मुख्यम्मुख्यं चमसमनून्नयति ११

12 सर्वैन्द्री रात्रिः ...{Loading}...

सर्वैन्द्री रात्रिः १२

13 अनुष्टुप् छन्दस इति ...{Loading}...

अनुष्टुप् छन्दस इति सर्वत्र भक्षमन्त्रं नमति १३

14 प्रथमाभ्याङ् गणाभ्यामध्वर्युश्चरति उत्तराभ्याम् ...{Loading}...

प्रथमाभ्यां गणाभ्यामध्वर्युश्चरति । उत्तराभ्यां प्रतिप्रस्थाता १४

15 एष प्रथमः पर्यायः ...{Loading}...

एष प्रथमः पर्यायः १५

16 एवं विहितो द्वितीयस्तृतीयश्च ...{Loading}...

एवं विहितो द्वितीयस्तृतीयश्च १६

इति तृतीया कण्डिका


  1. Cf. TMB XII.13.25; JB I.194. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS VI.6.11.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. After every half verse. ↩︎ ↩︎

  4. After the end of a verse. ↩︎