०१

01 उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकाराः ...{Loading}...

उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकाराः १

02 उक्थ्येन पशुकामो यजेत ...{Loading}...

उक्थ्येन पशुकामो यजेत । षोडशिना वीर्यकामः । अतिरात्रेण प्रजाकामः पशुकामो वा । अप्तोर्यामेणातिरात्रेण सर्वान्कामानवाप्नोति २

03 तेषामग्निष्टोमवत्कल्पः ...{Loading}...

तेषामग्निष्टोमवत्कल्पः ३

04 उक्ताश्च विकाराः ...{Loading}...

उक्ताश्च विकाराः ४

05 यथा सदः क्रतुकरणङ् ...{Loading}...

यथा सदः क्रतुकरणं क्रतुपशवः षोडशिनः सोमक्रयणी पात्रमिति ५

06 उक्थ्यश्चेदग्निष्टोमचमसानुन्नयंस्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ...{Loading}...

उक्थ्यश्चेदग्निष्टोमचमसानुन्नयंस्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ६

07 अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतुश्चमसमनून्नय ...{Loading}...

अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतुश्चमसमनून्नय होतृचमसे ध्रुवायावकाशं कुरूद्गात्रा पत्नीं सङ्ख्यापयाप उपप्रवर्तयेति सम्प्रैषः ७

08 अग्निष्टोमचमसैः प्रचर्य प्रातःसवनवदुक्थ्यं ...{Loading}...

अग्निष्टोमचमसैः प्रचर्य प्रातःसवनवदुक्थ्यं विगृह्णाति ८

09 एतावन्नाना इन्द्रावरुणाभ्यान् त्वेति ...{Loading}...

एतावन्नाना । इन्द्रावरुणाभ्यां त्वेति प्रथमे ग्रहणसादनौ सन्नमति । इन्द्राबृहस्पतिभ्यां त्वेति द्वितीये । इन्द्राविष्णुभ्यां त्वेति तृतीये ९

10 उन्नेतः सर्वं राजानमुन्नय ...{Loading}...

उन्नेतः सर्वं राजानमुन्नय मातिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति सर्वसंस्थासूत्तमे गण एतत्सम्प्रेष्यति १०

इति प्रथमा कण्डिका


  1. Cf. TS VI.6.11.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.6.7-8. ↩︎ ↩︎ ↩︎

  3. See XII.18.13-14. ↩︎

  4. See X.22.6. ↩︎

  5. See XII.2.6. ↩︎