२५

01 वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतीमोक्षाञ्जपति ...{Loading}...

वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतीमोक्षाञ्जपति १

02 अत्र विष्णुक्रमानेके समामनन्ति ...{Loading}...

अत्र विष्णुक्रमानेके समामनन्ति २

03 प्राजहितं समारोप्य शालामुखीयन् ...{Loading}...

प्राजहितं समारोप्य शालामुखीयं द्वितीयं गतश्रियः प्राङ्दङ्वोदवसायेदमू नु श्रेयोऽवसानमागन्म शिवे नो द्यावापृथिवी उभे इमे । गोमद्धनवदश्ववदूर्जस्वत्सुवीरा वीरैरनुसञ्चरेमेति देवयजनमध्यवसाय निर्मन्थ्योदवसानीयायास्तन्त्रं प्रक्रमयति ३

04 अग्नीनन्वाधाय वेदङ् कृत्वाग्नीन्परिस्तीर्य ...{Loading}...

अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्रयोगः ४

05 निर्वपणकाल आग्नेयम् पञ्चकपालन् ...{Loading}...

निर्वपणकाल आग्नेयं पञ्चकपालं निर्वपति । अष्टाकपालं वा । यदि पञ्चकपालो गायत्र्यौ संयाज्ये । यद्यष्टाकपालः पङ्क्त्यौ ५

06 अनड्वान्दक्षिणा अनडुदर्हं वा ...{Loading}...

अनड्वान्दक्षिणा । अनडुदर्हं वा हिरण्यम् ६

07 सिद्धमिष्टिः सन्तिष्ठते वैष्णवीम् ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते । वैष्णवीं पूर्णाहुतिमुदवसानीयायाः स्थाने वाजसनेयिनः समामनन्ति ७

08 द्वादशगृहीतेन स्रुचम् पूरयित्वेदं ...{Loading}...

द्वादशगृहीतेन स्रुचं पूरयित्वेदं विष्णुर्विचक्रम इत्यन्तर्वेद्यूर्ध्वस्तिष्ठञ्जुहोति ८

09 सा यावद्रात्रेष्टिः सन्तिष्ठतेऽथ ...{Loading}...

सा यावद्रात्रेष्टिः सन्तिष्ठतेऽथ सायमग्निहोत्रं जुहोति । काले प्रातर्होमम् ९

10 सन्तिष्ठतेऽग्निष्टोमोऽग्निष्टोमः ...{Loading}...

सन्तिष्ठतेऽग्निष्टोमोऽग्निष्टोमः १०

इति पञ्चविंशी कण्डिका इति सप्तमः पटलः इति त्रयोदशः प्रश्नः


  1. viz. TS III.5.4.a-f. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. the old Āhavanīya and new Gārhapatya. ↩︎ ↩︎ ↩︎ ↩︎

  3. See I.1.3. ↩︎ ↩︎

  4. See VI.28.11. ↩︎

  5. Thus KB XVIII.14. ↩︎

  6. TB III.7.9.9. ↩︎