२४

01 देविकाहवींषि निर्वपति …{Loading}…

देविकाहवींषि निर्वपति १

02 धात्रे पुरोडाशन् द्वादशकपालमिति …{Loading}…

धात्रे पुरोडाशं द्वादशकपालमिति पञ्च २

03 यासु स्थालीषु सोमा …{Loading}…

यासु स्थालीषु सोमा भवन्ति तासूत्तराणि चत्वारि हवींषि श्रपयति ३

04 समानन् तु स्विष्टकृदिडम् …{Loading}…

समानं तु स्विष्टकृदिडम् ४

05 देविका निर्वपेत्प्रजाकाम इति …{Loading}…

देविका निर्वपेत्प्रजाकाम इति काम्याः ५

06 अनूबन्ध्यायां स्वरुञ् जुहोति …{Loading}…

अनूबन्ध्यायां स्वरुं जुहोति । हृदयशूलमुद्वासयति ६

07 विष्णुक्रमान्क्रामति …{Loading}…

विष्णुक्रमान्क्रामति ७

08 राज्ञो राजम्भव्यस्य वानूबन्ध्यायाः …{Loading}…

राज्ञो राजम्भव्यस्य वानूबन्ध्यायाः पशुपुरोडाशमष्टौ देवसुवां हवींष्यनुनिर्वपत्यग्नये गृहपतय इति ८

09 समानन् तु स्विष्टकृदिडम् …{Loading}…

समानं तु स्विष्टकृदिडम् ९

10 मैत्रावरुणीमामिक्षामनूबन्ध्यायाः स्थाने बह्वृचाः …{Loading}…

मैत्रावरुणीमामिक्षामनूबन्ध्यायाः स्थाने बह्वृचाः समामनन्ति । तस्या अग्रेण हविर्धानमासीनोऽनवानः होता यजति । हविराहुतिप्रभृतीडान्ता सन्तिष्ठते । प्रयाजप्रभृत्याज्यभागप्रभृति वा । इडान्तामेके समामनन्ति १०

11 कृत्स्नसंस्थामेके …{Loading}…

कृत्स्नसंस्थामेके ११

12 तामनु देविकाहवींषि निर्वपति …{Loading}…

तामनु देविकाहवींषि निर्वपति १२

13 समानन् तु स्विष्टकृदिडम् …{Loading}…

समानं तु स्विष्टकृदिडम् १३

14 सदसो हविर्धानस्य हविर्धानयोरिति …{Loading}…

सदसो हविर्धानस्य हविर्धानयोरिति प्रथमग्रथितान्ग्रन्थीन्विस्रस्योदीची हविर्धाने बहिर्वेदि निर्वर्तयति १४

15 आहवनीयादुल्मुकमादाय यजमानो वेदिमुपोषति …{Loading}…

आहवनीयादुल्मुकमादाय यजमानो वेदिमुपोषति यत्कुसीदमप्रतीत्तमिति १५

16 यदि मिश्रमिव चरेदञ्जलिना …{Loading}…

यदि मिश्रमिव चरेदञ्जलिना सक्तून्प्रदाव्ये जुहुयाद्विश्वलोप विश्वदावस्य त्वेति १६

17 यदाकूतादिति तिसृभिर्धूममनुमन्त्रयते …{Loading}…

यदाकूतादिति तिसृभिर्धूममनुमन्त्रयते १७

18 अह्नां विधान्यामित्युक्तम् …{Loading}…

अह्नां विधान्यामित्युक्तम् १८

19 अयन् नो नभसा …{Loading}…

अयं नो नभसा पुर इत्येतैर्यथाब्राह्मणमुपस्थाय १९

इति चतुर्विंशी कण्डिका


  1. This ritual has been taken from the ritual of Rājasūya. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚālṅkhāŚS V.12.12; ĀŚvaŚS VI.14.20. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XI.8.1.; See also XI.8.7. ↩︎ ↩︎