२३

01 प्रायणीयावदुदयनीया ...{Loading}...

प्रायणीयावदुदयनीया १

02 तस्यामेव स्थाल्यामनिष्कसितायां श्रपयति ...{Loading}...

तस्यामेव स्थाल्यामनिष्कसितायां श्रपयति । तद्बर्हिः । तन्मेक्षणम् २

03 शालामुखीये प्रचरन्ति ...{Loading}...

शालामुखीये प्रचरन्ति ३

04 तेष्वेव देशेष्वग्निमाज्यभागानाम् प्रथमं ...{Loading}...

तेष्वेव देशेष्वग्निमाज्यभागानां प्रथमं यजति । पथ्यां स्वस्तिमुत्तमाम् ४

05 याः प्रायणीयस्य याज्या ...{Loading}...

याः प्रायणीयस्य याज्या इत्युक्तम् ५

06 मैत्रावरुणीङ् गां वशामनूबन्ध्यामालभते ...{Loading}...

मैत्रावरुणीं गां वशामनूबन्ध्यामालभते ६

07 तस्या निरूढपशुबन्धवत्कल्पः ...{Loading}...

तस्या निरूढपशुबन्धवत्कल्पः ७

08 इम्त्रावरुणाभ्याङ् गोर्वपाया मेदसोऽनुब्रूहि ...{Loading}...

इम्त्रावरुणाभ्यां गोर्वपाया मेदसोऽनुब्रूहि मित्रावरुणाभ्यां गोर्वपाया मेदसः प्रेष्येति सम्प्रैषौ ८

09 एवमवदानेषु हविष इत्यन्तौ ...{Loading}...

एवमवदानेषु हविष इत्यन्तौ नमति ९

10 तिस्रुऽनूबन्ध्या एके समामनन्ति ...{Loading}...

तिस्रुऽनूबन्ध्या एके समामनन्ति १०

11 मैत्रावरुणीं वैश्वदेवीम् बार्हस्पत्यामिति ...{Loading}...

मैत्रावरुणीं वैश्वदेवीं बार्हस्पत्यामिति ११

12 द्विरूपा मैत्रावरुणी बहुरूपा ...{Loading}...

द्विरूपा मैत्रावरुणी । बहुरूपा वैश्वदेवी । रोहिणी बार्हस्पत्या १२

13 उपांशु वैश्वदेव्या मध्यतश्चरन्ति ...{Loading}...

उपांशु वैश्वदेव्या मध्यतश्चरन्ति १३

14 ता न सर्वत्रालभेत ...{Loading}...

ता न सर्वत्रालभेत वाजपेये राजसूये सत्त्रे सहस्रे सर्ववेदसे वा १४

15 यः कामयेत सर्वो ...{Loading}...

यः कामयेत सर्वो मे यज्ञः स्यात्सरस इति स एतास्तिस्रोऽनूबन्ध्या आलभेत १५

16 अनूबन्ध्यावपायां हुतायान् दक्षिणे ...{Loading}...

अनूबन्ध्यावपायां हुतायां दक्षिणे वेद्यन्ते यजमानः केशश्मश्रु वापयते १६

17 अनूबन्ध्यायाः पशुपुरोडाशम् ...{Loading}...

अनूबन्ध्यायाः पशुपुरोडाशम् १७

इति त्रयोविंशी कण्डिका


  1. See X.21.1ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XXIX.4. ↩︎ ↩︎