२२

01 उदेत प्रजामायुर्वर्चो दधाना ...{Loading}...

उदेत प्रजामायुर्वर्चो दधाना अध स्यामसुरुभयोर्गृहेषु । गायत्रीं छन्दांस्यनुसंरभन्तामस्मान्राय उत यज्ञाः सचन्ताम् । सुप्रीतः सुवरप आविवेशेत्युन्नेतोन्नयति १

02 अहते वसानावुदितः ...{Loading}...

अहते वसानावुदितः २

03 सोमोष्णीषं यजमानः परिधत्ते ...{Loading}...

सोमोष्णीषं यजमानः परिधत्ते । सोमोपनहनं पत्नी सोमपरिश्रयणं वा ३

04 ते उदवसानीयायामध्वर्यवे दत्तः ...{Loading}...

ते उदवसानीयायामध्वर्यवे दत्तः ४

05 उद्वयन् तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो ...{Loading}...

उद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यसित्वा समित्पाणय उन्नेतारं पुरस्कृत्याप्रतीक्षमायन्त्यपाम सोममिति महीयां वदन्तो यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत् । अनृणा अस्मिन्ननृणाः परस्मिंस्तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा आ क्षीयेमेति च ५

06 एधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो ...{Loading}...

एधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते ६

इति द्वाविंशी कण्डिका इति षष्ठः पटलः


  1. KS IV.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. KS IV.13. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. ŚB II.6.8. ↩︎ ↩︎ ↩︎ ↩︎

  4. The sacrificer, his wife, and others who have taken bath. ↩︎ ↩︎

  5. Cf. TS VI.6.3.5. ↩︎