२१

01 देवीराप इत्यवभृथं यजमानोऽभिमन्त्र्य ...{Loading}...

देवीराप इत्यवभृथं यजमानोऽभिमन्त्र्य सुमित्रा न आप ओषधय इत्यपः प्रगाह्य सशिरस्कावनुपमक्षन्तौ स्नातः पत्नी यजमानश्च १

02 अन्योऽन्यस्य पृष्ठे प्रधावतः ...{Loading}...

अन्योऽन्यस्य पृष्ठे प्रधावतः २

03 यद्दिदीक्षे मनसा यच्च ...{Loading}...

यद्दिदीक्षे मनसा यच्च वाचा यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण । यद्रेतसा मिथुनेनाप्यात्मनाद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो बिमोक्तीर्मयि तेज इन्द्रियम् । यदृचा साम्ना यजुषा पशूनां चर्मन्हविषा दिदीक्षे । यच्छन्दोभिरोषधीभिर्वनस्पतावद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियम् । येन ब्रह्म येन क्षत्रं येनेन्द्राग्नी प्रजापतिः सोमो वरुणो येन राजा । विश्वे देवा ऋषयो येन प्राणा अद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियमिति त्रिरञ्जलिना विषिच्योन्नेतर्वसीयो न उन्नयाभि । उदित्ते वसुवित्तमा गिरः स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव । कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुरिति यजमानः सम्प्रेष्यति ३

इत्येकविंशी कण्डिका


  1. TS I.4.5.5.h. ↩︎ ↩︎

  2. TS I.4.45.g. ↩︎ ↩︎

  3. Cf. ŚB IV.4.5.23. For both these Sūtras see also VIII.8.15.16. ↩︎ ↩︎