२०

01 नमो रुद्राय वास्तोष्पतय …{Loading}…

नमो रुद्राय वास्तोष्पतय आयने विद्रवण उद्याने यत्परायण आवर्तने विवर्तने यो गोपायति तं हुव इति च १

02 उरुं हि राजा …{Loading}…

उरुं हि राजा वरुणश्चकारेति वेद्या भिप्रयान्तो वदन्ति । चात्वालाद्वा २

03 प्रस्तोतः साम गायेति …{Loading}…

प्रस्तोतः साम गायेति ३

04 सर्वे सहपत्नीकास्त्रिः साम्नो …{Loading}…

सर्वे सहपत्नीकास्त्रिः साम्नो निधनमुपयन्ति । अर्धाध्वे द्वितीयम् । प्राप्य तृतीयम् ४

05 सर्वत्र सम्प्रेष्यति …{Loading}…

सर्वत्र सम्प्रेष्यति ५

06 सर्वा दिशोऽवभृथगमनमाम्नातमित्येतदाद्या चर्यायाः …{Loading}…

सर्वा दिशोऽवभृथगमनमाम्नातमित्येतदाद्या चर्यायाः ६

07 निष्कासवद्वारुणेन प्रचर्यापबर्हिषावनूयाजौ यजति …{Loading}…

निष्कासवद्वारुणेन प्रचर्यापबर्हिषावनूयाजौ यजति । न वा ७

08 यत्ते ग्राव्णाप्यायस्व सन् …{Loading}…

यत्ते ग्राव्णाप्यायस्व सं त इति सौमीभिर्द्रप्सवतीभिः पञ्चभिः सप्तभिस्त्रयोदशभिर्वा दध्नौदुम्बरशाखयर्जीषं प्रोक्षति ८

09 प्रहृत्य वाभिजुहुयात् …{Loading}…

प्रहृत्य वाभिजुहुयात् ९

10 ऋजीषस्य स्रुचम् पूरयित्वाप्सूपमारयति …{Loading}…

ऋजीषस्य स्रुचं पूरयित्वाप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तरिति १०

11 ततो यो भिन्दुरुत्स्रवते …{Loading}…

ततो यो भिन्दुरुत्स्रवते तमुपस्पृशेद्भक्षयेद्वाप्सु धौतस्य सोम देव त इति ११

12 समुद्रं वः प्रहिणोमीति …{Loading}…

समुद्रं वः प्रहिणोमीति सर्वाणि च सोमलिप्तान्यवभृथे प्रविध्यति १२

13 विचृत्तो वरुणस्य पाश …{Loading}…

विचृत्तो वरुणस्य पाश इति यजमानो मेखलां विचचृते । इमं विष्यामीति पत्नी योक्तम् १३

14 अत्र योक्तमेखले वाससी …{Loading}…

अत्र योक्तमेखले वाससी जालं कृष्णाजिनं चावभृथे प्रविध्य १४

इति विंशी कण्डिका


  1. TB III.7.9.7; cp. AV VI.77.2; R̥V X.19.4-5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.4.45.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS III.2.5.x. ↩︎ ↩︎

  4. The sentence is incomplete. See the next Sūtra. ↩︎