१९

01 अवभृथस्य तन्त्रम् प्रक्रमयति ...{Loading}...

अवभृथस्य तन्त्रं प्रक्रमयति १

02 वेदङ् कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि ...{Loading}...

वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्रयोगः २

03 निर्वपणकाले वारुणमेककपालन् निर्वपति ...{Loading}...

निर्वपणकाले वारुणमेककपालं निर्वपति ३

04 चतुर्गृहीतान्याज्यानि वारुणञ् चालङ्कृत्योत्तरवेद्यंस ...{Loading}...

चतुर्गृहीतान्याज्यानि वारुणं चालङ्कृत्योत्तरवेद्यंस आसादयति ४

05 अत्र यजमान औदुम्बरीमुत्खिदत्युपसृजन्धरुणम् ...{Loading}...

अत्र यजमान औदुम्बरीमुत्खिदत्युपसृजन्धरुणं मात्रे मातरा धरुणो धयन्निह पुष्टिं पुष्टिपतिर्नियच्छतु रायस्पोषमिषमूर्जमस्मासु दीधरदिति ५

06 तामधिषवणचर्मफलके सर्वाणि च ...{Loading}...

तामधिषवणचर्मफलके सर्वाणि च सोमलिप्तान्यन्तरा चात्वालोत्करावुत्तरे वा वेद्यंस औदुम्बर्यामासन्द्यां सादयति । अन्यत्र चतसृभ्यः सोमस्थालीभ्यः ६

07 अव ते हेडो ...{Loading}...

अव ते हेडो वरुण नमोभिरिति यजमानश्चात्वाले कृष्णाशिनं प्रास्यति ७

08 पुनर्वैनेन दीक्षेत वसीत ...{Loading}...

पुनर्वैनेन दीक्षेत वसीत वैनद्भ्रस्तां वैनत्स्रुचामवधानार्थां कारयेत् । हविरवहननार्थं वा स्यात् ८

09 अवभृथादुदेत्य पुत्राय ब्रह्मचारिणे ...{Loading}...

अवभृथादुदेत्य पुत्राय ब्रह्मचारिणे वा दद्यादित्येके ९

10 आयुर्दा अग्ने हविषो ...{Loading}...

आयुर्दा अग्ने हविषो जुषाण इत्यवभृथमवैष्यञ्जुहुयात् । अवभृथ निचङ्कुणेति च १०

इत्येकोनविंशी कण्डिका


  1. The word literally means “bringing down (of the Soma-husks etc. to the water)." The ritual includes the concluding bath. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS III.3.8.a. ↩︎

  3. TS I.4.45.f. ↩︎