१८

01 समुद्रं वः प्रहिणोमि ...{Loading}...

समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अरिष्टा अस्माकं वीराः सन्तु मा परासेचि नः स्वम् । अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा न इत्यन्तर्वेदि शेषान्निनीय दधिक्राव्णो अकारिषमित्याग्नीध्रे दधिद्रप्सान्भक्षयन्ति १

02 उभा कवी युवाना ...{Loading}...

उभा कवी युवाना सत्या ता धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामह इति तानूनप्त्रिणः सख्यानि विसृजन्ते २

03 पशुवत्पत्नीसंयाजाः ...{Loading}...

पशुवत्पत्नीसंयाजाः ३

04 स्तीर्णे वेदे जुह्वान् ...{Loading}...

स्तीर्णे वेदे जुह्वां नवगृहीतं गृहीत्वा धाता रातिरित्यन्तर्वेद्यूर्ध्वस्तिष्ठन्सन्ततं समशो नव समिष्टयजूंषि जुहोति ४

05 यङ् कामयेत पापीयान्स्यादित्येकैकन् ...{Loading}...

यं कामयेत पापीयान्स्यादित्येकैकं तस्य जुहुयाज्जिह्मस्तिष्ठन् । स्रुवेण वा विग्राहम् ५

06 इदन् तृतीयं सवनङ् ...{Loading}...

इदं तृतीयं सवनं कवीनामिति संस्थिते सवन आहुतिं जुहोति ६

07 अत्र मेखलायाः कृष्णविषाणायाश्च ...{Loading}...

अत्र मेखलायाः कृष्णविषाणायाश्च चात्वाले प्रासनं वाजसनेयिनः समामनन्ति माहिर्भूर्मा पृदाकुरिति ७

08 अग्निना देवेन पृतना ...{Loading}...

अग्निना देवेन पृतना जयामीति यजमानो जागतान्विष्णुक्रमान्क्रामति ८

09 सर्वेभिर्देवेभिः पृतना यजाम्यानुष्टुभेन ...{Loading}...

सर्वेभिर्देवेभिः पृतना यजाम्यानुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्ना वषट्कारेण वज्रेण सर्वजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन्क्षयेऽस्मिन्भूमिलोके योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामीति चतुर्थमेके समामनन्ति ९

10 इन्द्रेण सयुजो वयमित्याहवनीयं ...{Loading}...

इन्द्रेण सयुजो वयमित्याहवनीयं यजमान उपतिष्ठते १०

इत्यष्टादशी कण्डिका इति पञ्चमः पटलः


  1. Here we find two verses. For the first, cp. TS IV.4.14.b. For the second see VII.36.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.5.11.1 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.4.14.a-i. ↩︎ ↩︎