01 परिधिषु प्रहृतेषून्नेता हारियोजनङ् ...{Loading}...
परिधिषु प्रहृतेषून्नेता हारियोजनं गृह्णाति १
मूलम् ...{Loading}...
परिधिषु प्रहृतेषून्नेता हारियोजनं गृह्णाति १
02 उपयामगृहीतोऽसि हरिरसीति द्रोणकलशेन ...{Loading}...
उपयामगृहीतोऽसि हरिरसीति द्रोणकलशेन सर्वमाग्रयणं गृहीत्वा न सादयति । बह्वीभिर्धानाभिः श्रीत्वा शीर्षन्नधिनिधायोपनिष्क्रम्येन्द्राय हरिवतेऽनुब्रूहीन्द्राय हरिवते प्रेष्येति सम्प्रैषौ । धानासोमेभ्योऽनुब्रूहि धानासोमान्प्रस्थितान्प्रेष्येति वा २
सर्वाष् टीकाः ...{Loading}...
थिते
- With upayāmagr̥hīto’si…1 having taken the entire (remaining quantity of Soma) in the Āgrayaṇa-vessel2 by means of (i.e. into) the Droṇakalaśa (the Adhvaryu) does not deposit it (on the mound). Having mixed many fried grains (in the Soma),3 having placed (the Droṇakalaśa) on the head,4 having stepped (towards the Āhavanīya), (he utters) the two orders, “Do you recite the introductory verse for Harivat Indra,” and “Do you order, (the Hotr̥ to recite the offering verse) for Indra Harivat", or “Do you recite the invitatory verse for (the offering of) Soma mixed with fried grains”5 and “Do you order (the Hotr̥ to recite the offering verse for the offering of) Soma mixed with fried grains started going towards Indra Harivat).6"
मूलम् ...{Loading}...
उपयामगृहीतोऽसि हरिरसीति द्रोणकलशेन सर्वमाग्रयणं गृहीत्वा न सादयति । बह्वीभिर्धानाभिः श्रीत्वा शीर्षन्नधिनिधायोपनिष्क्रम्येन्द्राय हरिवतेऽनुब्रूहीन्द्राय हरिवते प्रेष्येति सम्प्रैषौ । धानासोमेभ्योऽनुब्रूहि धानासोमान्प्रस्थितान्प्रेष्येति वा २
03 हरी स्थ हर्योर्धाना ...{Loading}...
हरी स्थ हर्योर्धाना इति विक्रम्य वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् ३
मूलम् ...{Loading}...
हरी स्थ हर्योर्धाना इति विक्रम्य वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् ३
04 अपरेणोत्तरवेदिन् द्रोणकलशम् प्रतिष्ठाप्योन्नेतर्युपहवमिष्ट्वा ...{Loading}...
अपरेणोत्तरवेदिं द्रोणकलशं प्रतिष्ठाप्योन्नेतर्युपहवमिष्ट्वा सर्वे हारियोजनं भक्षयन्तीष्टयजुषस्ते देव सोमेति ४
मूलम् ...{Loading}...
अपरेणोत्तरवेदिं द्रोणकलशं प्रतिष्ठाप्योन्नेतर्युपहवमिष्ट्वा सर्वे हारियोजनं भक्षयन्तीष्टयजुषस्ते देव सोमेति ४
05 असम्भिन्दन्तो धाना निम्नानि ...{Loading}...
असम्भिन्दन्तो धाना निम्नानि कुर्वते । निम्नानि कृत्वा निरिव धयन्ति ५
मूलम् ...{Loading}...
असम्भिन्दन्तो धाना निम्नानि कुर्वते । निम्नानि कृत्वा निरिव धयन्ति ५
06 चिश्चिषाकारम् भक्षयन्ति ...{Loading}...
चिश्चिषाकारं भक्षयन्ति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- They eat (the fried grains) making the sound ciṣ ciṣ.
मूलम् ...{Loading}...
चिश्चिषाकारं भक्षयन्ति ६
07 कृष्यै क्षेमाय रय्यै ...{Loading}...
कृष्यै क्षेमाय रय्यै पोषायेति भक्षयित्वा जपन्ति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Having eaten they mutter krsyai ksemāya rayyai pos āya.1
मूलम् ...{Loading}...
कृष्यै क्षेमाय रय्यै पोषायेति भक्षयित्वा जपन्ति ७
08 आपूर्या स्थामा पूरयतेत्युत्तरवेद्यां ...{Loading}...
आपूर्या स्थामा पूरयतेत्युत्तरवेद्यां शेषा न्युप्य यन्म आत्मनो मिन्दाभूदिति मिन्दयाहवनीयमुपतिष्ठन्ते ८
मूलम् ...{Loading}...
आपूर्या स्थामा पूरयतेत्युत्तरवेद्यां शेषा न्युप्य यन्म आत्मनो मिन्दाभूदिति मिन्दयाहवनीयमुपतिष्ठन्ते ८
09 देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनसएनसोऽवयजनमसीत्याहवनीये ...{Loading}...
देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनसएनसोऽवयजनमसीत्याहवनीये शकलानभ्याधायैकधनपरिशेषेषु हरिणीर्दूर्वाः प्रास्य सम्प्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वंस्वं चमसरसमवघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव इति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Having thrown splinters on the Āhavanīya1 with devakr̥tasyainasaḥ…2 having put green Dūrva (-grass-blades) in the remnants of the Ekadhana (-water),3 having kneaded (the mixture),4 having made it strong, having poured it into their respective goblets, the Camasins (goblet-holders) sitting down to the west of the Cātvāla (pit), or in the Āstāva,5 with their faces to the west, drink the (contents from their) own goblet with apsu dhautasya soma devaḥ…6
मूलम् ...{Loading}...
देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनसएनसोऽवयजनमसीत्याहवनीये शकलानभ्याधायैकधनपरिशेषेषु हरिणीर्दूर्वाः प्रास्य सम्प्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वंस्वं चमसरसमवघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव इति ९
इति सप्तदशी कण्डिका