१७

01 परिधिषु प्रहृतेषून्नेता हारियोजनङ् …{Loading}…

परिधिषु प्रहृतेषून्नेता हारियोजनं गृह्णाति १

02 उपयामगृहीतोऽसि हरिरसीति द्रोणकलशेन …{Loading}…

उपयामगृहीतोऽसि हरिरसीति द्रोणकलशेन सर्वमाग्रयणं गृहीत्वा न सादयति । बह्वीभिर्धानाभिः श्रीत्वा शीर्षन्नधिनिधायोपनिष्क्रम्येन्द्राय हरिवतेऽनुब्रूहीन्द्राय हरिवते प्रेष्येति सम्प्रैषौ । धानासोमेभ्योऽनुब्रूहि धानासोमान्प्रस्थितान्प्रेष्येति वा २

03 हरी स्थ हर्योर्धाना …{Loading}…

हरी स्थ हर्योर्धाना इति विक्रम्य वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् ३

04 अपरेणोत्तरवेदिन् द्रोणकलशम् प्रतिष्ठाप्योन्नेतर्युपहवमिष्ट्वा …{Loading}…

अपरेणोत्तरवेदिं द्रोणकलशं प्रतिष्ठाप्योन्नेतर्युपहवमिष्ट्वा सर्वे हारियोजनं भक्षयन्तीष्टयजुषस्ते देव सोमेति ४

05 असम्भिन्दन्तो धाना निम्नानि …{Loading}…

असम्भिन्दन्तो धाना निम्नानि कुर्वते । निम्नानि कृत्वा निरिव धयन्ति ५

06 चिश्चिषाकारम् भक्षयन्ति …{Loading}…

चिश्चिषाकारं भक्षयन्ति ६

07 कृष्यै क्षेमाय रय्यै …{Loading}…

कृष्यै क्षेमाय रय्यै पोषायेति भक्षयित्वा जपन्ति ७

08 आपूर्या स्थामा पूरयतेत्युत्तरवेद्यां …{Loading}…

आपूर्या स्थामा पूरयतेत्युत्तरवेद्यां शेषा न्युप्य यन्म आत्मनो मिन्दाभूदिति मिन्दयाहवनीयमुपतिष्ठन्ते ८

09 देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनसएनसोऽवयजनमसीत्याहवनीये …{Loading}…

देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनसएनसोऽवयजनमसीत्याहवनीये शकलानभ्याधायैकधनपरिशेषेषु हरिणीर्दूर्वाः प्रास्य सम्प्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वंस्वं चमसरसमवघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव इति ९

इति सप्तदशी कण्डिका


  1. See VII.27.8 and III.7.11-14. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS VI.5.9.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS VI.5.9.1-2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. TS VI.5.9.3. ↩︎ ↩︎

  5. Cf. ŚB IV.4.3.a. ↩︎ ↩︎

  6. Cf. ŚB IV.4.3.a. ↩︎ ↩︎