१६

01 भूतमसि भूते मा ...{Loading}...

भूतमसि भूते मा धा इति प्रतिप्रस्थाता ध्रुवमवेक्ष्य द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्यञ्जलिना परिगृह्य विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्त्विति हृत्वा ध्रुवं ध्रुवेणेति पुरस्तात्प्रत्यङ्ङासीनो होतृचमसे ध्रुवमवनयति १

02 पुरस्तादुक्थ्यस्यावनीयः मध्यतोऽन्ततो वा ...{Loading}...

पुरस्तादुक्थ्यस्यावनीयः । मध्यतोऽन्ततो वा २

03 उत नोऽहिर्बुÞयः शृणोत्वज ...{Loading}...

उत नोऽहिर्बुÞयः शृणोत्वज एकपादिति वा वैश्वदेव्यामृचि शस्यमानायाम् ३

04 परिधानीयायां वा सकृच्छास्तायाम् ...{Loading}...

परिधानीयायां वा सकृच्छास्तायाम् ४

05 मध्यमायामुत्तमायां वा ...{Loading}...

मध्यमायामुत्तमायां वा ५

06 उक्थं वाचीन्द्रायेत्याह तृतीयसवनम् ...{Loading}...

उक्थं वाचीन्द्रायेत्याह तृतीयसवनं प्रतिगीर्य । शस्त्रंशस्त्रं वा ६

07 प्रचरणकाले होतृचमसमध्वर्युरादत्ते चमसांश्चमसाध्वर्यवः ...{Loading}...

प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युक्थशा यज सोमानामिति । वषट्कृतानुवषट्कृते जुह्वति । भक्षान्हरन्ति ७

08 होतृचमसमध्वर्युः प्रतिभक्षयति सुभूरसि ...{Loading}...

होतृचमसमध्वर्युः प्रतिभक्षयति सुभूरसि श्रेष्ठो रश्मीनां प्रियो देवानां संसदनीयः । तं त्वा सुभव देवा अभिसंविशन्त्विषोऽसि त्वेषोऽसि नृम्णोऽसि यह्वोऽसि व्रतोऽसि स्वोऽसि वारणोऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य यह्वस्य व्रतस्य स्वस्य वारणस्य शूद्रस्य चार्यस्य च भुक्षिषीयेति ८

09 यथा त्वं सूर्यासि ...{Loading}...

यथा त्वं सूर्यासि विश्वदर्शत एवमहं विश्वदर्शतो भूयासमित्यादित्यं यजमान उपतिष्ठते ९

10 आयुर्म इन्द्रियन् धेह्यदो ...{Loading}...

आयुर्म इन्द्रियं धेह्यदो म आगच्छत्वित्याहवनीयम् १०

11 यत्कामयते तस्य नाम ...{Loading}...

यत्कामयते तस्य नाम गृह्णाति ११

12 अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकङ् कर्म ...{Loading}...

अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते १२

इति षोडशी कण्डिका इति चतुर्थः पटलः


  1. TS III.2.8.n. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS III.2.8.0. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS III.2.8.p-q. ↩︎ ↩︎ ↩︎

  4. Cf. KS XXVIII.1. ↩︎

  5. Cf. TS VI.5.2.2. ↩︎

  6. TS III.2.8.r-s. ↩︎