१५

01 नोपस्थ आसीत यदुपस्थ ...{Loading}...

नोपस्थ आसीत । यदुपस्थ आसीत पण्डकः स्यात् १

02 होतृचमसमुख्यांश्चमसानुन्नयन्सर्वं राजानमुन्नीय दशाभिः ...{Loading}...

होतृचमसमुख्यांश्चमसानुन्नयन्सर्वं राजानमुन्नीय दशाभिः कलशौ मृष्ट्वा न्युब्जति २

03 यज्ञायज्ञियस्य स्तोत्रमुपाकरोति ...{Loading}...

यज्ञायज्ञियस्य स्तोत्रमुपाकरोति ३

04 ज्वलयन्ति धिष्णियान् ...{Loading}...

ज्वलयन्ति धिष्णियान् ४

05 सकर्णप्रावृता अवकर्णप्रावृता वा ...{Loading}...

सकर्णप्रावृता अवकर्णप्रावृता वा यज्ञायज्ञियेन स्तुवते ५

06 ये प्रसृप्ताः स्युस्ते ...{Loading}...

ये प्रसृप्ताः स्युस्ते सर्वेऽग्निष्टोममुपगायेयुः ६

07 सप्तहोतारं यजमानो व्याचष्टे ...{Loading}...

सप्तहोतारं यजमानो व्याचष्टे ७

08 विश्वस्य ते विश्वावत ...{Loading}...

विश्वस्य ते विश्वावत इति हिङ्कारमनूद्गात्रा पत्नीं सङ्ख्यापयति । आ तिसृभ्यः स्तोत्रियाभ्योऽगन्देवानिति च ८

09 पत्न्यप उपप्रवर्तयति दक्षिणेनोरुणा ...{Loading}...

पत्न्यप उपप्रवर्तयति दक्षिणेनोरुणा नग्नेन प्राचीरुदीचीर्वोरुभ्यामन्तरतः ९

10 ऊर्वोरुपप्रवर्तयेदित्येके ...{Loading}...

ऊर्वोरुपप्रवर्तयेदित्येके १०

11 उपरि दूरमुदूहेदा वक्षणानामाविष्कर्तोः ...{Loading}...

उपरि दूरमुदूहेदा वक्षणानामाविष्कर्तोः । अह्रीतमुख्यस्या जायत इति विज्ञायते ११

12 अभ्यग्र आग्निमारुतम् प्रतिगृणाति ...{Loading}...

अभ्यग्र आग्निमारुतं प्रतिगृणाति १२

13 आपो हि ष्ठा ...{Loading}...

आपो हि ष्ठा मयोभुव इत्यभिज्ञायापो विषिञ्चन्प्रतिगृणाति १३

14 स्वादुष्किलायम् मधुमाँ उतायमित्यभिज्ञायोभयतो ...{Loading}...

स्वादुष्किलायं मधुमाँ उतायमित्यभिज्ञायोभयतो मोदं प्रतिगृणाति मदा मोद इव मोदा मोद इवेत्या व्याहावात् १४

15 सादनादि ध्रुवस्य न ...{Loading}...

सादनादि ध्रुवस्य न यजमानो मूत्रं करोत्यावनयनात् १५

इति पञ्चदशी कण्डिका


  1. Cf. KS XXVIII.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.29.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS VI.5.8.6. ↩︎ ↩︎

  4. (by the Udgātr̥). Cf. TMB VIII.7.13. See also V.25.11. ↩︎ ↩︎

  5. Cf. TMB VIII.7.4. ↩︎ ↩︎