१४

01 उद्गातृभ्यो हरन्ति ...{Loading}...

उद्गातृभ्यो हरन्ति १

02 तमुद्गातारोऽवक्षन्ते सत्रो त ...{Loading}...

तमुद्गातारोऽवक्षन्ते सत्रो त एतद्यदु त इहेति २

03 य आत्मानन् न ...{Loading}...

य आत्मानं न परिपश्येदाज्येनाभिददिं कृत्वावेक्षेत ३

04 यो गतमनाः स्यात्सो ...{Loading}...

यो गतमनाः स्यात्सो ऽवेक्षेत यन्मे मनः परागतमिति ४

05 अत्र पुनः शलाकाभिर्ज्वलतो ...{Loading}...

अत्र पुनः शलाकाभिर्ज्वलतो धिष्णियान्विहृतानाज्येनैवाष्टगृहीतेन व्याघारयति ५

06 यद्येनम् ब्रूयादाग्नीध्रीयम् मे ...{Loading}...

यद्येनं ब्रूयादाग्नीध्रीयं मे पुनर्व्याघारयेति नवगृहीतं गृहीत्वाग्नीध्रीयमादितोऽन्ततश्च व्याघार्य धारयति धिष्णियानाज्यशेषं च ६

07 उपयामगृहीतोऽसि बृहस्पतिसुतस्य त ...{Loading}...

उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इत्युपांशुपात्रेण पात्नीवतमाग्रयणाद्गृहीत्वा न सादयति ७

08 इति वषट्कृते जुहोति ...{Loading}...

व्याघारणशेषेण श्रीत्वाश्राव्य प्रत्याश्राविते संप्रेष्यत्यग्नीत्पात्नीवतस्य यजेति । अग्ना३इ पत्नीवा३ इति वषट्कृते जुहोति ८

09 नानुवषट्करोति ...{Loading}...

नानुवषट्करोति ९

10 अपि वोपांश्वनुवषट्कुर्यात् ...{Loading}...

अपि वोपांश्वनुवषट्कुर्यात् १०

11 ततः सम्प्रेष्यत्यग्नीन्नेष्टुरुपस्थमासीद नेष्टः ...{Loading}...

ततः सम्प्रेष्यत्यग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतुश्चमसमनून्नय होतृचमसे ध्रुवायावकाशं कुरूद्गात्रा पत्नीं सङ्ख्यापयाप उपप्रवर्तयेति ११

12 सम्प्रैषवत्कुर्वन्ति ...{Loading}...

सम्प्रैषवत्कुर्वन्ति १२

13 अन्तरा हेष्टारन् धिष्णियञ् ...{Loading}...

अन्तरा हेष्टारं धिष्णियं चाग्नीध्रो व्यवसृप्य भक्षयति १३

14 अग्निपीतस्येति भक्षमन्त्रं सन्नमति ...{Loading}...

अग्निपीतस्येति भक्षमन्त्रं सन्नमति १४

इति चतुर्दशी कण्डिका


  1. Cr. TS VI.6.7.1; cp. JB I.20. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. MS IV.7.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Sec XIII.14.8. ↩︎ ↩︎ ↩︎