१३

01 वाममद्य सवितरित्यन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृहीत्वा ...{Loading}...

वाममद्य सवितरित्यन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृहीत्वा न सादयति १

02 देवाय सवित्रेऽनुब्रूहि देवाय ...{Loading}...

देवाय सवित्रेऽनुब्रूहि देवाय सवित्रे प्रेष्येति सम्प्रैषौ २

03 नानुवषट्करोति ...{Loading}...

नानुवषट्करोति ३

04 एतेनैव सशेषेण वैश्वदेवम् ...{Loading}...

एतेनैव सशेषेण वैश्वदेवं पूतभृतो गृह्णाति ४

05 उपयामगृहीतोऽसि सुशर्मासीति ग्रहणसादनौ ...{Loading}...

उपयामगृहीतोऽसि सुशर्मासीति ग्रहणसादनौ ५

06 न स्तोत्रम् भवति ...{Loading}...

न स्तोत्रं भवति ६

07 वैश्वदेवम् प्रतिगृणाति ...{Loading}...

वैश्वदेवं प्रतिगृणाति ७

08 प्र द्यावा यज्ञैः ...{Loading}...

प्र द्यावा यज्ञैः पृथिवी ऋतावृधेत्यभिज्ञायोभयतो मोदं प्रतिगृणाति मदा मोद इव मोदा मोद इवेति ८

09 अन्यतरतो मोदं वा ...{Loading}...

अन्यतरतो मोदं वा मदा मोद इव ओथा मोद इवेति ९

10 व्यवहितमेके समामनन्ति मदा ...{Loading}...

व्यवहितमेके समामनन्ति मदा मोद इव ओथा मोद इव मोदा मोद इवेति १०

11 आ व्याहावात् ...{Loading}...

आ व्याहावात् ११

12 नियुद्भिर्वायविह ता विमुञ्चेत्यभिज्ञाय ...{Loading}...

नियुद्भिर्वायविह ता विमुञ्चेत्यभिज्ञाय प्रतिप्रस्थाता द्विदेवत्यपात्राणि वायुर्वो विमुञ्चत्विति विमुच्यापरया द्वारा निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वयातिहृत्य यथायतनं सादयति १२

13 वैश्वदेववद्ग्रहनाराशंसाः ...{Loading}...

वैश्वदेववद्ग्रहनाराशंसाः १३

14 सौम्यस्य चरोस्तन्त्रम् प्रक्रमयति ...{Loading}...

सौम्यस्य चरोस्तन्त्रं प्रक्रमयति १४

15 व्याख्यातश्चरुकल्पः ...{Loading}...

व्याख्यातश्चरुकल्पः १५

16 श्रपयित्वा प्राचीनावीती सौम्येन ...{Loading}...

श्रपयित्वा प्राचीनावीती सौम्येन प्रचरति १६

17 हस्तेन प्रथममवदानमवद्यति मेक्षणेनोत्तरम् ...{Loading}...

हस्तेन प्रथममवदानमवद्यति । मेक्षणेनोत्तरम् । एतद्वा विपरीतम् १७

18 दक्षिणतो ऽवदायाभिघार्योदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्नाश्राव्य ...{Loading}...

दक्षिणतो ऽवदायाभिघार्योदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्नाश्राव्य प्रत्याश्राविते सम्प्रेष्यति सौम्यस्य यजेति १८

19 वषट्कृते दक्षिणार्धे जुहोति ...{Loading}...

वषट्कृते दक्षिणार्धे जुहोति १९

20 आज्येनोपांशूभयतः सौम्यम् परियजति ...{Loading}...

आज्येनोपांशूभयतः सौम्यं परियजति । अन्यतरतो वा २०

21 आश्राव्य प्रत्याश्राविते सम्प्रेष्यति ...{Loading}...

आश्राव्य प्रत्याश्राविते सम्प्रेष्यति घृतस्य यजेति २१

22 वषट्कृते हुत्वा प्रत्याक्रम्याज्येन ...{Loading}...

वषट्कृते हुत्वा प्रत्याक्रम्याज्येन चरुमभिपूर्य २२

इति त्रयोदशी कण्डिका


  1. Cf. TS VI.5.7.1. See XIII.14.7; 17.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS VI.5.7.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS VI.5.7.1. ↩︎ ↩︎ ↩︎ ↩︎