१२

01 प्रचरणकाले होतृचमसमध्वर्युरादत्ते चमसांश्चमसाध्वर्यवः …{Loading}…

प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः १

02 आश्राव्य प्रत्याश्राविते सम्प्रेष्यति …{Loading}…

आश्राव्य प्रत्याश्राविते सम्प्रेष्यति । तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीब्राँ आशीर्वत इन्द्राय सोमानिति सम्प्रैषादिः २

03 अथ चमसाञ्जुहोति …{Loading}…

अथ चमसाञ्जुहोति ३

04 श्येनाय पत्वने स्वाहेति …{Loading}…

श्येनाय पत्वने स्वाहेति वषट्कृते जुहोति । वट् स्वयमभिगूर्ताय नमः स्वाहेत्यनुवषट्कृते ४

05 हुत्वा हरति भक्षम् …{Loading}…

हुत्वा हरति भक्षम् ५

06 एवमुत्तरैः प्रचरति …{Loading}…

एवमुत्तरैः प्रचरति ६

07 एतावन्नाना पूर्वेणपूर्वेण मन्त्रेण …{Loading}…

एतावन्नाना । पूर्वेणपूर्वेण मन्त्रेण वषट्कृतेवषट्कृते जुहोति । उत्तरेणोत्तरेणानुवषट्कृते ७

08 तृम्पन्तां होत्रा इति …{Loading}…

तृम्पन्तां होत्रा इति सर्वान्हुत्वा जपति ८

09 सन्नेषु नाराशंसेषु चमसिनः …{Loading}…

सन्नेषु नाराशंसेषु चमसिनः स्वंस्वं चमसमनू न्यन्ते त्रींस्त्रीन्पुरोडाशशकलानुपवपन्त एतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम् ९

10 नमो वः पितरो …{Loading}…

नमो वः पितरो रसायेति नमस्काराञ्जपन्ति १०

11 षड्ढोतारं यजमानो व्याचष्टे …{Loading}…

षड्ढोतारं यजमानो व्याचष्टे ११

12 प्रजापते न त्वदेतानीति …{Loading}…

प्रजापते न त्वदेतानीति प्राजापत्ययावतिष्ठन्ते १२

इति द्वादशी कण्डिका इति तृतीयः पटलः


  1. TS III.2.8.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS III.2.8.a. ↩︎ ↩︎