११

01 जागतः पन्था आदित्या ...{Loading}...

जागतः पन्था आदित्या देवतावृकेणापरिपरेण पथा स्वस्त्यादित्यानशीयेति सर्पणे विकारः । आयुषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादार्भवात्पवमानाद्यजमानो जपति । पञ्चहोतारं सप्तहोतारं वा व्याचष्टे । आयुवै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति च । स्तूयमाने च पञ्चहोतारं सप्तहोतारं वा जपति । मध्यमायां च स्तोत्रीयायां तृतीयमन्वारोहम् । स्तुतेऽध्वर्युः सम्प्रेष्यत्यग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातः पशौ संवदस्वेति १

02 अत्र शलाकाभिर्ज्वलतो धिष्णियान्विहृतान्न ...{Loading}...

अत्र शलाकाभिर्ज्वलतो धिष्णियान्विहृतान्न व्याघारयेत् । उपरिष्टाद्व्याघारणम् २

03 शमितरित्येतदादि पाशुकङ् कर्म ...{Loading}...

शृतं हवी३ शमितरित्येतदादि पाशुकं कर्म प्रतिपद्यत एडायाः ३

04 दक्षिणेन हविर्धानं समवत्तं ...{Loading}...

दक्षिणेन हविर्धानं समवत्तं हरति । उत्तरेण वा ४

05 प्राशितायामिडायां सवनीयाद्या नाराशंसानां ...{Loading}...

प्राशितायामिडायां सवनीयाद्या नाराशंसानां सादनात् ५

06 तत्र विकारः तृतीयस्य ...{Loading}...

तत्र विकारः । तृतीयस्य सवनस्येन्द्राय पुरोडाशानामिति सम्प्रैषादी नमति ६

इत्येकादशी कण्डिका


  1. See XII.17.1; XIII.2.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.17.11; XIII.3.1.a; MS IV.2.4. ↩︎ ↩︎

  3. Cf. TB II.2.8.3. ↩︎

  4. This formula is found only in the Āpastambaśrautasūtra. See also XIII.3.1. ↩︎

  5. viz. TS III.2.1.1. See XII. 17.15-16, XIII..3.1. ↩︎

  6. See also XII.17.19; XIII.3.1. ↩︎