१०

01 आदित्येभ्योऽनुब्रूहि प्रियेभ्यः प्रियधामभ्यः ...{Loading}...

आदित्येभ्योऽनुब्रूहि प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य आदित्येभ्यः प्रेष्य प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति सम्प्रैषौ । आदित्येभ्योऽनुब्रूह्यादित्येभ्यः प्रेष्येति वा १

02 यास्ते विश्वाः समिधः ...{Loading}...

यास्ते विश्वाः समिधः सन्त्यग्न इति दर्भानाहवनीये प्रास्यान्यत्रेक्षमाण आदित्यं जुहोति २

03 उन्नम्भय पृथिवीमिति वृष्टिकामस्य ...{Loading}...

उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात् ३

04 न हुत्वान्वीक्षेत ...{Loading}...

न हुत्वान्वीक्षेत ४

05 सूदवदादित्यपात्रमायतने सादयित्वादाभ्यांशुमुपांशुपावनौ यश्चोपांशुपात्रेऽशुं\!स्तानृजीषेऽपिसृज्य ...{Loading}...

सूदवदादित्यपात्रमायतने सादयित्वादाभ्यांशुमुपांशुपावनौ यश्चोपांशुपात्रेऽशुं!स्तानृजीषेऽपिसृज्य प्रातःसवनवन्महाभिषवः ५

06 ऋजीषन् त्वेवाभिषुण्वन्ति ...{Loading}...

ऋजीषं त्वेवाभिषुण्वन्ति ६

07 पयस्यावर्जं सवनीयाः ...{Loading}...

पयस्यावर्जं सवनीयाः ७

08 आग्नीध्रे पत्न्याशिरम् मथित्वापरया ...{Loading}...

आग्नीध्रे पत्न्याशिरं मथित्वापरया द्वारा हविर्धानं प्रपादयति । पूर्वया गतश्रियः ८

09 पूर्वया यजमानः प्रपद्यते ...{Loading}...

पूर्वया यजमानः प्रपद्यते ९

10 पूतभृतो बिल उदीचीनदशम् ...{Loading}...

पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्यजमानः पुरस्तात्प्रत्यङ्तिष्ठन्सह पत्न्याशिरमवनयत्यस्मे देवासो वपुषे चिकित्सतेति चतसृभिः १०

11 ग्रहकाल आग्रयणमेव चतसृभ्यो ...{Loading}...

ग्रहकाल आग्रयणमेव चतसृभ्यो धाराभ्यः ११

12 आग्रयणादुत्सिच्य द्वितीयान् धाराङ् ...{Loading}...

आग्रयणादुत्सिच्य द्वितीयां धारां करोति । आदित्यस्थाल्यास्तृतीयाम् । आदित्यग्रहसम्पाताचतुर्थोम् १२

13 उक्थ्यश्चेदत्रोक्थ्यङ् गृह्णाति ...{Loading}...

उक्थ्यश्चेदत्रोक्थ्यं गृह्णाति १३

14 विरमति धारैकधनानां यथार्थमित्येतदादि ...{Loading}...

विरमति धारैकधनानां यथार्थमित्येतदादि माध्यन्दिनवत् १४

इति दशमी कण्डिका


  1. ŚB IV.3.5.26. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS III.5.5.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. CI. KS XXVIII.6. ↩︎ ↩︎

  4. See XII. 11.11. ↩︎

  5. See XII. 11.5. ↩︎