०९

01 आदित्यारम्भणन् तृतीयसवनम् ...{Loading}...

आदित्यारम्भणं तृतीयसवनम् १

02 हविर्धानस्योभे द्वारौ संवृत्य ...{Loading}...

हविर्धानस्योभे द्वारौ संवृत्य वेद्यां बहुजनायाम् २

03 यदि वास्य भ्रातृव्यः ...{Loading}...

यदि वास्य भ्रातृव्यः प्रसृप्तः स्यादन्तर्वेदि सति गृह्णीयात् ३

04 भ्रातृव्ययज्ञे तु गृह्यमाण ...{Loading}...

भ्रातृव्ययज्ञे तु गृह्यमाण आदित्ये बहिर्वेदि तिष्ठेत् ४

05 आदित्यपात्रेण य आदित्यस्थाल्यान् ...{Loading}...

आदित्यपात्रेण य आदित्यस्थाल्यां द्विदेवत्यग्रहसम्पातास्तेभ्यः सोमं गृह्णाति कदा चन स्तरीरसीति ५

06 कदा चन प्रयुच्छसीति ...{Loading}...

कदा चन प्रयुच्छसीति शृतातङ्क्यं दधि ६

07 यज्ञो देवानामिति पुनः ...{Loading}...

यज्ञो देवानामिति पुनः सोमं गृहीत्वा विवस्व आदित्येति तस्मिन्ग्रावाणमुपांशुसवनमवधाय तेनैनं मेक्षयित्वा ७

08 या दिव्या वृष्टिस्तया ...{Loading}...

या दिव्या वृष्टिस्तया त्वा श्रीणामीति शृतातङ्क्येन दध्ना पयसा वा वृष्टिकामस्य श्रीत्वा ग्रावाणमुद्गृह्णाति ८

09 यद्युद्गृहीतस्य ताजग्बिन्दुः प्रस्कन्देद्वर्षुकः ...{Loading}...

यद्युद्गृहीतस्य ताजग्बिन्दुः प्रस्कन्देद्वर्षुकः पर्जन्यः स्यात् । यदि चिरमवर्षुकः ९

10 न सादयति ...{Loading}...

न सादयति १०

11 यदि कामयेत गर्भान्पशवः ...{Loading}...

यदि कामयेत गर्भान्पशवः स्रीव्येयुरित्युद्गृह्यादित्यमवेक्षेत ११

12 दर्भैर्हस्तेन वापिधायोत्तिष्ठति सूर्यो ...{Loading}...

दर्भैर्हस्तेन वापिधायोत्तिष्ठति सूर्यो मा देवो देवेभ्यः पात्विति १२

13 अहम् परस्तादित्यादित्यं यजमानोऽन्वारभत ...{Loading}...

अहं परस्तादित्यादित्यं यजमानोऽन्वारभत आ होमात् १३

14 कविर्यज्ञस्य वितनोति पन्थामिति ...{Loading}...

कविर्यज्ञस्य वितनोति पन्थामिति हरति १४

15 आ समुद्रादिति दर्भैराच्यावयति ...{Loading}...

आ समुद्रादिति दर्भैराच्यावयति १५

इति नवमी कण्डिका


  1. Cf. TS VI.5.6.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XXVIII.6; cp. MS IV.6.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.4.22.a. ↩︎ ↩︎

  4. TS 1.4.22.c. ↩︎

  5. Cp. TS VI.5.6.5. ↩︎