०८

01 मरुत्वतीयाभ्याम् प्रचरतः ...{Loading}...

मरुत्वतीयाभ्यां प्रचरतः १

02 इन्द्राय मरुत्वतेऽनुब्रूहीन्द्राय मरुत्वते ...{Loading}...

इन्द्राय मरुत्वतेऽनुब्रूहीन्द्राय मरुत्वते प्रेष्येति सम्प्रैषौ सानुवषट्कारावननुवषट्कारौ वा । अन्यतरो वा सानुवषट्कारः । द्विदेवत्यवत्सम्पातौ व्यवनीयाभक्षितेन पात्रेणाध्वर्युस्तृतीयं मरुत्वतीयं गृह्णाति । मरुत्वाँ इन्द्रेति ग्रहणसादनौ । प्रतिप्रस्थाता हरति भक्षम् । उभावध्वर्यू प्रतिभक्षयतः २

03 एतत्पात्रमादायैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ...{Loading}...

एतत्पात्रमादायैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ३

04 माहेन्द्रं शुक्रपात्रेण गृह्णाति ...{Loading}...

माहेन्द्रं शुक्रपात्रेण गृह्णाति । महाँ इन्द्रो य ओजसेति ग्रहणसादनौ ४

05 माहेन्द्रस्य स्तोत्रमुपाकरोति ...{Loading}...

माहेन्द्रस्य स्तोत्रमुपाकरोति ५

06 स्तुते वैश्वदेववच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ...{Loading}...

स्तुते वैश्वदेववच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ६

07 माहेन्द्रन् त्वतिग्राह्या अनुहूयन्ते ...{Loading}...

माहेन्द्रं त्वतिग्राह्या अनुहूयन्ते ७

08 सहैवाध्वर्युणाग्नेयम् प्रतिप्रस्थातादत्ते ऐन्द्रन् ...{Loading}...

सहैवाध्वर्युणाग्नेयं प्रतिप्रस्थातादत्ते । ऐन्द्रं नेष्टा । सौर्यमुन्नेता ८

09 अग्ने तेजस्विन्नित्याग्नेयम् प्रतिप्रस्थाता ...{Loading}...

अग्ने तेजस्विन्नित्याग्नेयं प्रतिप्रस्थाता हुत्वा तेजोविदसीत्यनुमन्त्रयते । इन्द्रौजस्विन्नित्यैन्द्रं नेष्टा हुत्वौजोविदसीत्यनुमन्त्रयते । सूर्य भ्राजस्विन्निति सौर्यमुन्नेता हुत्वा सुवर्विदसीत्यनुमन्त्रयते ९

10 तान्हुत्वा सदसि प्रत्यङ्मुखा ...{Loading}...

तान्हुत्वा सदसि प्रत्यङ्मुखा भक्षयन्ति मयि मेधामित्येतैः स्वंस्वं यथालिङ्गम् १०

11 तथैवोक्थ्यविग्रहाः ...{Loading}...

तथैवोक्थ्यविग्रहाः ११

12 एतावन्नाना इन्द्राय त्वेन्द्राय ...{Loading}...

एतावन्नाना । इन्द्राय त्वेन्द्राय त्वेति सर्वत्र ग्रहणसादनौ सन्नमति १२

13 उक्थं वाचीत्याह माध्यन्दिनं ...{Loading}...

उक्थं वाचीत्याह माध्यन्दिनं सवनं प्रतिगीर्य शस्त्रंशस्त्रं वा । विश्वे देवा मरुत इति संस्थिते सवन आहुतिं जुहोति १३

14 तथैव सम्प्रैषः सर्पणञ् ...{Loading}...

तथैव सम्प्रैषः सर्पणं च १४

15 सन्तिष्ठते माध्यन्दिनं सवनम् ...{Loading}...

सन्तिष्ठते माध्यन्दिनं सवनम् १५

इत्यष्टमी कण्डिका इति द्वितीयः पटलः


  1. These are lying on the Khara (mound). See XIII.2.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KB XV.3. ↩︎ ↩︎ ↩︎ ↩︎

  3. See XII.23.9. ↩︎

  4. See XII.27.8. ↩︎

  5. TS 1.4.19. ↩︎

  6. See XII.27.9. ↩︎