०७

01 दक्षिणतः सदस्यासीनेभ्यः प्रसर्पकेभ्यो ...{Loading}...

दक्षिणतः सदस्यासीनेभ्यः प्रसर्पकेभ्यो ददाति १

02 न बहिर्वेदि ...{Loading}...

न बहिर्वेदि २

03 न याचितः ...{Loading}...

न याचितः ३

04 न भीतः ...{Loading}...

न भीतः ४

05 न कण्वकश्यपेभ्यः ...{Loading}...

न कण्वकश्यपेभ्यः ५

06 नाब्राह्मणाय ...{Loading}...

नाब्राह्मणाय ६

07 ब्राह्मणायाप्यविदुषे न देयम् ...{Loading}...

ब्राह्मणायाप्यविदुषे न देयम् । अप्यब्राह्मणाय विद्याविदे दद्यात् । यां स विद्यां वेद तां तयावरुन्द्धे ७

08 यां श्रोत्रियाय ज्ञातये ...{Loading}...

यां श्रोत्रियाय ज्ञातये वानृत्विजे प्रसृप्ताय यां स विद्यां वेद तां तयावरुन्द्धे ८

09 याञ् ज्येष्ठाय यया ...{Loading}...

यां ज्येष्ठाय यया स देवतया ज्यैष्ठ्यं गच्छति तां तयावरुन्द्धे ९

10 यामार्षेयाय विदुषे स्वर्गन् ...{Loading}...

यामार्षेयाय विदुषे स्वर्गं तया लोकमाप्नोति १०

11 यामन्यो दीयमानान् न ...{Loading}...

यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै दद्यात्सहान्येन धनेन ११

12 यत्प्रतिनुत्तान् दक्षिणाङ् गोषु ...{Loading}...

यत्प्रतिनुत्तां दक्षिणां गोषु चारयेत्प्रति वा गृह्णीयात्सलावृक्येनं भूत्वा प्रव्लिनीयात् १२

13 यामदानीयाय दक्षिणान् ददाति ...{Loading}...

यामदानीयाय दक्षिणां ददाति तामस्य पशवोऽन्वपक्रामन्ति । यदि मन्येतादानीयायादामिति न म इदमुपदम्भिषगित्येतद्यजुर्जपेद्गां वा दद्याद्ब्राह्मणाय १३

14 यदा मरुत्वतेऽनूक्तमथ न ...{Loading}...

यदा मरुत्वतेऽनूक्तमथ न देयं न प्रतिगृह्यम् १४

15 अनूबन्ध्यावपायां हुतायान् दद्यात्प्रति ...{Loading}...

अनूबन्ध्यावपायां हुतायां दद्यात्प्रति च गृह्णीयुः १५

16 नीतासु दक्षिणासु चात्वाले ...{Loading}...

नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति हरिणस्य रघुष्यतोऽधि शीर्षणि भेषजम् । स क्षेत्रियं विषाणया विषूचीनमनीनशत् । अनु त्वा हरिणो मृगः पड्भिश्चतुर्भिरक्रमीत् । विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्फितमित्येताभ्याम् १६

17 यज्ञपतिमृषय एनसाहुरित्याग्नीध्रीये पञ्च ...{Loading}...

यज्ञपतिमृषय एनसाहुरित्याग्नीध्रीये पञ्च वैश्वकर्मणानि हुत्वा १७

इति सप्तमी कण्डिका


  1. Cf. for all these rules KS XXVIII.5; MS IV8.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. MS IV.2.8. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. AV III.7.2 and MS II.2.2. ↩︎