01 दक्षिणतः सदस्यासीनेभ्यः प्रसर्पकेभ्यो …{Loading}…
दक्षिणतः सदस्यासीनेभ्यः प्रसर्पकेभ्यो ददाति १
थिते
- (The sacrificer) gives (a gift) to the visitors sitting in the Sadas towards the south.
दक्षिणतः सदस्यासीनेभ्यः प्रसर्पकेभ्यो ददाति १
02 न बहिर्वेदि …{Loading}…
न बहिर्वेदि २
थिते
- (He should) not (give to one who is) outside the altar;
न बहिर्वेदि २
03 न याचितः …{Loading}…
न याचितः ३
थिते
- nor (when) he has been begged for,
न याचितः ३
04 न भीतः …{Loading}…
न भीतः ४
थिते
- nor (when he is) frightened;
न भीतः ४
05 न कण्वकश्यपेभ्यः …{Loading}…
न कण्वकश्यपेभ्यः ५
थिते
- nor to those, belonging to the Kaņva or to the Kaśyapa family
न कण्वकश्यपेभ्यः ५
06 नाब्राह्मणाय …{Loading}…
नाब्राह्मणाय ६
थिते
- nor to a non-brāhmin.1
नाब्राह्मणाय ६
07 ब्राह्मणायाप्यविदुषे न देयम् …{Loading}…
ब्राह्मणायाप्यविदुषे न देयम् । अप्यब्राह्मणाय विद्याविदे दद्यात् । यां स विद्यां वेद तां तयावरुन्द्धे ७
थिते
- One should not give to one who is not learned even though he is a Brāhmaṇa. One may give even to a non-brāhmin who is learned. He (the sacrificer) obtains that knowledge which he (the non-brāhmin) knows.1
ब्राह्मणायाप्यविदुषे न देयम् । अप्यब्राह्मणाय विद्याविदे दद्यात् । यां स विद्यां वेद तां तयावरुन्द्धे ७
08 यां श्रोत्रियाय ज्ञातये …{Loading}…
यां श्रोत्रियाय ज्ञातये वानृत्विजे प्रसृप्ताय यां स विद्यां वेद तां तयावरुन्द्धे ८
थिते
- Whatever (gift he gives) to a learned person or to a relative who is not a priest, but is a visitor, he obtains that knowledge which that person knows.1
यां श्रोत्रियाय ज्ञातये वानृत्विजे प्रसृप्ताय यां स विद्यां वेद तां तयावरुन्द्धे ८
09 याञ् ज्येष्ठाय यया …{Loading}…
यां ज्येष्ठाय यया स देवतया ज्यैष्ठ्यं गच्छति तां तयावरुन्द्धे ९
थिते
- Whatever (gifts he gives) to a seniormost person, he obtains senior-mostness by means of that deity due to which (the senior-most) has reached the senior-most-ness.1
यां ज्येष्ठाय यया स देवतया ज्यैष्ठ्यं गच्छति तां तयावरुन्द्धे ९
10 यामार्षेयाय विदुषे स्वर्गन् …{Loading}…
यामार्षेयाय विदुषे स्वर्गं तया लोकमाप्नोति १०
थिते
- Whatever (gift he gives) to a person who is learned and belonging to any R̥ṣi (sage) family, by means of it he (the sacrificer) obtains the heaven.1
यामार्षेयाय विदुषे स्वर्गं तया लोकमाप्नोति १०
11 यामन्यो दीयमानान् न …{Loading}…
यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै दद्यात्सहान्येन धनेन ११
थिते
- To him whom he (the sacrificer) hates he should give such a gift as another one may not desire, along with some Other wealth.
यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै दद्यात्सहान्येन धनेन ११
12 यत्प्रतिनुत्तान् दक्षिणाङ् गोषु …{Loading}…
यत्प्रतिनुत्तां दक्षिणां गोषु चारयेत्प्रति वा गृह्णीयात्सलावृक्येनं भूत्वा प्रव्लिनीयात् १२
थिते
- If one lets a gift (-cow) which has been rejected, wander among (his other cows), or if he takes it back, that (cow) having become a female wolf, might bite him.1
यत्प्रतिनुत्तां दक्षिणां गोषु चारयेत्प्रति वा गृह्णीयात्सलावृक्येनं भूत्वा प्रव्लिनीयात् १२
13 यामदानीयाय दक्षिणान् ददाति …{Loading}…
यामदानीयाय दक्षिणां ददाति तामस्य पशवोऽन्वपक्रामन्ति । यदि मन्येतादानीयायादामिति न म इदमुपदम्भिषगित्येतद्यजुर्जपेद्गां वा दद्याद्ब्राह्मणाय १३
थिते
- Whatever (gift-cow) he gives to a person who does not deserve to be given to, the other cattle go away from him. If he thinks, I have “(given a gift-cow) to a person who does not deserve to be given to”, he should either mutter the Yajus formula na mā idamupadambhiṣak…1 or should give (another) cow to a Brāhmaṇa.2
यामदानीयाय दक्षिणां ददाति तामस्य पशवोऽन्वपक्रामन्ति । यदि मन्येतादानीयायादामिति न म इदमुपदम्भिषगित्येतद्यजुर्जपेद्गां वा दद्याद्ब्राह्मणाय १३
14 यदा मरुत्वतेऽनूक्तमथ न …{Loading}…
यदा मरुत्वतेऽनूक्तमथ न देयं न प्रतिगृह्यम् १४
थिते
- After the invitatory verse in connection with (the offering of the scoop to Indra) Marutvat1 has been recited, no gift should be given (and) no one be accepted.
यदा मरुत्वतेऽनूक्तमथ न देयं न प्रतिगृह्यम् १४
15 अनूबन्ध्यावपायां हुतायान् दद्यात्प्रति …{Loading}…
अनूबन्ध्यावपायां हुतायां दद्यात्प्रति च गृह्णीयुः १५
थिते
- After the omentum of the Anūbandhyā (-cow) has been offered, one may give and others may accept (gifts).2
अनूबन्ध्यावपायां हुतायां दद्यात्प्रति च गृह्णीयुः १५
16 नीतासु दक्षिणासु चात्वाले …{Loading}…
नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति हरिणस्य रघुष्यतोऽधि शीर्षणि भेषजम् । स क्षेत्रियं विषाणया विषूचीनमनीनशत् । अनु त्वा हरिणो मृगः पड्भिश्चतुर्भिरक्रमीत् । विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्फितमित्येताभ्याम् १६

17 यज्ञपतिमृषय एनसाहुरित्याग्नीध्रीये पञ्च …{Loading}…
यज्ञपतिमृषय एनसाहुरित्याग्नीध्रीये पञ्च वैश्वकर्मणानि हुत्वा १७
यज्ञपतिमृषय एनसाहुरित्याग्नीध्रीये पञ्च वैश्वकर्मणानि हुत्वा १७
इति सप्तमी कण्डिका