०६

01 हिरण्यम् पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधेऽग्रे ...{Loading}...

हिरण्यं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधेऽग्रे ददाति १

02 प्रतिहर्त्रेऽन्ततः ...{Loading}...

प्रतिहर्त्रेऽन्ततः २

03 तथा ब्रह्मणे दद्याद्यथान्यान् ...{Loading}...

तथा ब्रह्मणे दद्याद्यथान्यां दक्षिणां नानुध्यायेत् ३

04 अङ्गानि दत्त्वा तेनतेन ...{Loading}...

अङ्गानि दत्त्वा तेनतेन यथालिङ्गं निष्क्रीणीते यद्यास्यन्स्यात् ४

05 होतर्वाचन् ते ददामि ...{Loading}...

होतर्वाचं ते ददामि तां तेऽनेन निष्क्रीणामीति ५

06 एवम् ब्रह्मणे मनः ...{Loading}...

एवं ब्रह्मणे मनः । अध्वर्यवे प्राणम् । उद्गात्रे चक्षुः । होत्रकेभ्यः श्रोत्रम् । चमसाध्वर्युभ्योऽङ्गानि । प्रसर्पकेभ्यो लोमानि सदस्यायात्मानम् ६

07 अन्यत्र दक्षिणाभ्यश्चमसाध्वर्युप्रसर्पकसदस्येभ्यः ...{Loading}...

अन्यत्र दक्षिणाभ्यश्चमसाध्वर्युप्रसर्पकसदस्येभ्यः ७

08 हिरण्यपाणिरग्रेण गार्हपत्यन् नयति ...{Loading}...

हिरण्यपाणिरग्रेण गार्हपत्यं नयति जघनेन सदः । अन्तराग्नीध्रं च सदश्च ता उदीचीस्तीर्थेनोत्सृजति ८

09 एतत्ते अग्ने राध ...{Loading}...

एतत्ते अग्ने राध इति दक्षिणातिनयनः ९

10 तथैव समन्वारब्धेष्वसमन्वारब्धेषु वाग्ने ...{Loading}...

तथैव समन्वारब्धेष्वसमन्वारब्धेषु वाग्ने नयेत्याग्नीध्रीये जुहोति १०

11 वनेषु व्यन्तरिक्षन् ततानेति ...{Loading}...

वनेषु व्यन्तरिक्षं ततानेति द्वितीयां यद्यनो रथो वासोऽधीवासो वा दीयते यदि वा दास्यन्स्यात् । प्रजापते न त्वदेतानीति तृतीयां यदि पुरुषो हस्ती वा दीयते यदि वा दास्यन्स्यात् ११

12 ब्राह्मणमद्य राध्यासमित्यात्रेयाय प्रथमाय ...{Loading}...

ब्राह्मणमद्य राध्यासमित्यात्रेयाय प्रथमाय हिरण्यं ददाति । द्वितीयाय तृतीयाय वा १२

13 तदभावे य आर्षेयः ...{Loading}...

तदभावे य आर्षेयः संहितस्तस्मै दद्यात् १३

14 अस्मद्दात्रा देवत्रा गच्छतेति ...{Loading}...

अस्मद्दात्रा देवत्रा गच्छतेति नीता अनुमन्त्र्य सद एत्य वि सुवः पश्येत्यनुवीक्षते यद्यतिनीय विभजेत् १४

15 अन्तः सदस्यासीनेभ्य ऋत्विग्भ्यो ...{Loading}...

अन्तः सदस्यासीनेभ्य ऋत्विग्भ्यो दद्यात् । हविर्धानेऽध्वर्युभ्यः १५

16 ऋत्विग्भ्यो नमस्करोति ...{Loading}...

ऋत्विग्भ्यो नमस्करोति १६

17 यं यज्ञमागच्छेत्तम् प्रसर्पेदिति ...{Loading}...

यं यज्ञमागच्छेत्तं प्रसर्पेदिति प्रसर्पकाणां विज्ञायते १७

इति षष्ठी कण्डिका


  1. Cf. MS IV.8.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS. VI.6.1.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. V.20.7. ↩︎ ↩︎ ↩︎ ↩︎

  4. Cp. V.20.7; cf. KS XXVIII.4. ↩︎ ↩︎ ↩︎