०५

01 सन्नेषु नाराशंसेषु दक्षिणा ...{Loading}...

सन्नेषु नाराशंसेषु दक्षिणा ददाति । बह्वपरिमितं सप्तैकविंशतिः षष्टिः शतम् द्वादशशतं सहस्रं सर्ववेदसं वा १

02 ज्येष्ठं वा पुत्रमपभज्य ...{Loading}...

ज्येष्ठं वा पुत्रमपभज्य सर्ववेदसं ददाति २

03 अश्वतरं साहस्रे सर्ववेदसे ...{Loading}...

अश्वतरं साहस्रे सर्ववेदसे च ददाति ३

04 अविन् ददात्यजाङ् गामश्वम् ...{Loading}...

अविं ददात्यजां गामश्वं पुरुषं हस्तिनं वासोऽनो रथमोदनं मन्थं माषांस्तिलान्व्रीहियवान्गर्दभमित्यधिकान्यनियतानि ४

05 गवां सङ्ख्या भवति ...{Loading}...

गवां सङ्ख्या भवति ५

06 दक्षिणेन वेदिमवस्थितासु दक्षिणासूत्तरेण ...{Loading}...

दक्षिणेन वेदिमवस्थितासु दक्षिणासूत्तरेण हविर्धानं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्य पूर्वया द्वारा प्राग्वंशं प्रविश्यात्र यजमानस्यामात्यानां संह्वयनाद्या स्रुग्दण्डोपनियमनात्कृत्वा प्रचरण्या दक्षिणानि जुहोति ६

07 हिरण्यम् प्रबध्य घृतेऽवधायोदु ...{Loading}...

हिरण्यं प्रबध्य घृतेऽवधायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये जुहोति ७

08 दिवङ् गच्छ सुवः ...{Loading}...

दिवं गच्छ सुवः पतेति हिरण्यं हुत्वोद्गृह्णाति ८

09 उभयन् धारयमाणो रूपेण ...{Loading}...

उभयं धारयमाणो रूपेण वो रूपमभ्यैमीति दक्षिणा अभ्यैति ९

10 अतिनीय विभागमेके समामनन्ति ...{Loading}...

अतिनीय विभागमेके समामनन्ति १०

11 तुथो वो विश्ववेदा ...{Loading}...

तुथो वो विश्ववेदा विभजत्विति ता यजमानश्चतुर्धा कृष्णाजिनेन व्युत्त्रास्य चतुर्थमध्वर्युभ्यो विभजति ११

12 यावदध्वर्यवे ददाति तस्यार्धम् ...{Loading}...

यावदध्वर्यवे ददाति तस्यार्धं प्रतिप्रस्थात्रे तृतीयं नेष्ट्रे चतुर्थमुन्नेत्रे १२

13 एतेनेतरेषान् दानमुक्तम् ...{Loading}...

एतेनेतरेषां दानमुक्तम् १३

इति पञ्चमी कण्डिका


  1. Cp. TB II.7.1.3.; cp. also TS VI.1.6.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XXVII.4; MS IV.8.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.4.43.a-b. ↩︎ ↩︎

  4. Cp. BaudhāŚS XXV.4. ↩︎ ↩︎

  5. Cf. TMB XVI.1.11. ↩︎

  6. In Viśvajit-sacrifice. See XXII.1.7. ↩︎

  7. See the Sūtra 5 below. ↩︎