०४

01 दधिघर्मस्य यजेति ...{Loading}...

दधिघर्मस्य यजेति १

02 यमिन्द्रमाहुर्वरुणं यमाहुर्यम् मित्रमाहुर्यमु ...{Loading}...

यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तपोजास्तस्मा इन्द्राय सुतमाजुहोमि स्वाहेति वषट्कृते जुहोति । स्वाहा वडिन्द्रायेत्यनुवषट्कृते हुत्वा हरति भक्षम् २

03 तम् भक्षयन्ति ये ...{Loading}...

तं भक्षयन्ति ये प्रवर्ग्यम् ३

04 तस्यारण्येऽनुवाक्यो भक्षमन्त्रः ...{Loading}...

तस्यारण्येऽनुवाक्यो भक्षमन्त्रः ४

05 नाप्रवर्ग्ये स्यादित्यपरम् ...{Loading}...

नाप्रवर्ग्ये स्यादित्यपरम् ५

06 मित्रो जनान्प्र स ...{Loading}...

मित्रो जनान्प्र स मित्रेति भक्षयित्वा नाभिदेशानभिमृशन्ते ६

07 व्याख्याता सवनीयचर्या ...{Loading}...

व्याख्याता सवनीयचर्या ७

08 एतावन्नाना माध्यन्दिनस्य सवनस्येन्द्राय ...{Loading}...

एतावन्नाना । माध्यन्दिनस्य सवनस्येन्द्राय पुरोडाशानामिति सम्प्रैषादी नमति ८

09 होत्र इडां हृत्वा ...{Loading}...

होत्र इडां हृत्वा हविर्धानं गच्छन्संप्रेष्यत्युन्नीयमानेभ्योऽनुब्रूहीति ९

10 उन्नयनाद्या नाराशंसानां सादनात् ...{Loading}...

उन्नयनाद्या नाराशंसानां सादनात् १०

11 तत्र विकारः ...{Loading}...

तत्र विकारः ११

12 अच्छावाकचमसन् दशममुन्नयति ...{Loading}...

अच्छावाकचमसं दशममुन्नयति १२

13 आश्राव्य प्रत्याश्राविते सम्प्रेष्यति ...{Loading}...

आश्राव्य प्रत्याश्राविते सम्प्रेष्यति १३

14 माध्यन्दिनस्य सवनस्य विष्केवल्यस्य ...{Loading}...

माध्यन्दिनस्य सवनस्य विष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमानिति सम्प्रैषादिः १४

15 षड्ढोत्रा भवन्ति ...{Loading}...

षड्ढोत्रा भवन्ति १५

16 पुरस्ट्दाग्नीध्रचमसादच्छावाकचमसेन चरन्ति ...{Loading}...

पुरस्ट्दाग्नीध्रचमसादच्छावाकचमसेन चरन्ति १६

17 एता एव होत्रास्तृतीयसवने ...{Loading}...

एता एव होत्रास्तृतीयसवने भवन्ति १७

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. Cf. ŚB XIV.3.1.30. The Hotr̥ recites R̥V X.179.3 as the offering verse.Cf. ĀśvaŚS V.13.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Only here. ↩︎ ↩︎