०३

01 ज्योतिषे हिङ्कुरु तस्यै ...{Loading}...

ज्योतिषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तान्माध्यन्दिनात्पवमानाद्यजमानो जपति । चतुर्होतारं पञ्चहोतारं वा व्याचष्टे । ज्योक्त्यै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति च । स्तूयमाने च चतुर्होतारं पञ्चहोतारं वा जपति । मध्यमायां च स्तोत्रीयायां द्वितीयमन्वारोहम् । स्तुतेऽध्वर्युः सम्प्रेष्यत्यग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातर्दधिघर्मेणानूदेहीति १

02 आग्नीध्रे प्रतिप्रस्थाता दधिघर्मङ् ...{Loading}...

आग्नीध्रे प्रतिप्रस्थाता दधिघर्मं गृह्णाति २

03 औदुम्बर्यां स्रुच्युपस्तीर्य यावती ...{Loading}...

औदुम्बर्यां स्रुच्युपस्तीर्य यावती द्यावापृथिवी इति दधि गृहीत्वाभिघार्य वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वापानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीतां शृतोऽसि शृतंकृतः शृताय त्वा शृतेभ्यस्त्वेत्याग्नीध्रीयेऽधिश्रित्याह होतर्वदस्व यत्ते वाद्यमिति ३

04 यदास्य विजानाति यदि ...{Loading}...

यदास्य विजानाति यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेत्येतस्मिन्काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वाश्राव्य प्रत्याश्राविते सम्प्रेष्यति ४

इति तृतीया कण्डिका


  1. MS IV.2.4 has been expanded here. For the ritual see and cp. XII.17.13. ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB II.2.8.3. ↩︎ ↩︎

  3. Cf. MS I.9.5. ↩︎ ↩︎

  4. This formula occurs only here. ↩︎

  5. See and cp. XII.17.14. ↩︎

  6. i.e. TS III.2.1.1; cp. ĀpŚSs XII.17.15-16. ↩︎

  7. Cp. XII.17.19. The ritual mentioned in XII.18.1-8. takes place here. ↩︎