०२

01 शुक्रामन्थिनावथाग्रयणन् तिसृभ्यो धाराभ्यः ...{Loading}...

शुक्रामन्थिनावथाग्रयणं तिसृभ्यो धाराभ्यः १

02 आग्रयणादुत्सिच्य द्वितीयान् धाराङ् ...{Loading}...

आग्रयणादुत्सिच्य द्वितीयां धारां करोति । उदचनात्तृतीयाम् २

03 उक्थ्यङ् गृहीत्वा मरुत्वतीयौ ...{Loading}...

उक्थ्यं गृहीत्वा मरुत्वतीयौ । एतद्वा विपरीतम् । मध्य उक्थ्यमभितो मरुत्वतीयावित्येके ३

04 मरुत्वन्तमिति स्वेनर्तुपात्रेणाध्वर्युः पूर्वम् ...{Loading}...

मरुत्वन्तमिति स्वेनर्तुपात्रेणाध्वर्युः पूर्वं मरुत्वतीयं गृह्णाति । इन्द्र मरुत्व इति स्वेन प्रतिप्रस्थातोत्तरम् ४

05 तयोरन्यदेवतानि ग्रहणानि द्वेष्यस्यैके ...{Loading}...

तयोरन्यदेवतानि ग्रहणानि द्वेष्यस्यैके समामनन्ति ५

06 विरमति धारैकधनानां यथार्थमित्येतदाद्या ...{Loading}...

विरमति धारैकधनानां यथार्थमित्येतदाद्या पञ्चहोतुः ६

07 ग्रहावकाशैः शृतङ्कारैश्चोपस्थाय वैप्रुषान्सप्तहोतारञ् ...{Loading}...

ग्रहावकाशैः शृतंकारैश्चोपस्थाय वैप्रुषान्सप्तहोतारं च हुत्वा बहिष्पवमानवन्माध्यन्दिने पवमानं सर्पन्ति ७

08 त्रैष्टुभः पन्था रुद्रा ...{Loading}...

त्रैष्टुभः पन्था रुद्रा देवतावृकेणापरिपरेण पथा स्वस्ति रुद्रानशीयेति सर्पणे विकारः ८

09 उत्तरेण हविर्धानङ् गत्वा ...{Loading}...

उत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण होतारमध्वर्युर्यजमानश्चावतिष्ठेते । दक्षिणेनोत्तरेण वा प्रशास्तुर्धिष्णियं परीत्योद्गातारो माध्यन्दिनेन पवमानेन स्तुवते ९

इति द्वितीया कण्डिका


  1. See XII. 14.13-16. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.15.3-9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS IV.6.4. ↩︎ ↩︎ ↩︎ ↩︎

  4. Thus one Marutvatīya should be before and the other after the Ukthya. ↩︎ ↩︎

  5. See XII.16.17. ↩︎