०१

01 अभिषवादि माध्यन्दिनं सवनन् ...{Loading}...

अभिषवादि माध्यन्दिनं सवनं तायते १

02 तस्य प्रातःसवनेन कल्पो ...{Loading}...

तस्य प्रातःसवनेन कल्पो व्याख्यातः २

03 होतृचमसेन वसतीवरीभ्यो निःषिच्य ...{Loading}...

होतृचमसेन वसतीवरीभ्यो निःषिच्य निग्राभ्याः करोति ३

04 द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न ...{Loading}...

द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न विद्यन्ते ४

05 विस्रस्य राजानङ् ग्रावस्तुते ...{Loading}...

विस्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छति ५

06 असम्प्रेषितो ग्रावस्तोत्रीया अन्वाह ...{Loading}...

असम्प्रेषितो ग्रावस्तोत्रीया अन्वाह ६

07 तथैव महाभिषवः ...{Loading}...

तथैव महाभिषवः ७

08 घोषवांस्तु ...{Loading}...

घोषवांस्तु ८

09 इहेति ...{Loading}...

संराधयन्तश्चाभिषुण्वन्तीहा३ इहेति ९

10 उत्तमस्याभिषवस्य मध्यमे पर्याये ...{Loading}...

उत्तमस्याभिषवस्य मध्यमे पर्याये बृहद्दधाति बृहद्बृहदिति १०

11 उत्तमेऽभिषवे ऽभिषुते राजन्यसम्भृते ...{Loading}...

उत्तमेऽभिषवे ऽभिषुते राजन्यसम्भृते देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्रमचुच्यवुः परमस्याः पराबतः । आस्मात्सधस्तादोरोरन्तरिक्षात् । आ सुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षांस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ११

12 पशुपुरोडाशन् निरुप्य पयस्यावर्जं ...{Loading}...

पशुपुरोडाशं निरुप्य पयस्यावर्जं सवनीयाः १२

13 तेन प्रचर्य सवनीयैः ...{Loading}...

तेन प्रचर्य सवनीयैः प्रचरति १३

14 समानन् तु स्विष्टकृदिडम् ...{Loading}...

समानं तु स्विष्टकृदिडम् १४

15 स कृताकृतः ...{Loading}...

स कृताकृतः १५

16 सम्भरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति ...{Loading}...

सम्भरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति १६

इति प्रथमा कण्डिका


  1. See and cp. XII. 12.1ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. viz. TS III.1.8.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. By this expression the Dadhigr̥aha, the Adābhya, Aṁśu, the Upāṁśu, and the Antaryāma-scoops (see XII.7.5-13.13; are meant. For the reason why they are called Darvihomas see XXIV.3.2-13. ↩︎