01 अभिषवादि माध्यन्दिनं सवनन् …{Loading}…
अभिषवादि माध्यन्दिनं सवनं तायते १
थिते
- The midday-pressing is performed beginning with the (rite called) Abhiṣava1 (principal act of pressing).
अभिषवादि माध्यन्दिनं सवनं तायते १
02 तस्य प्रातःसवनेन कल्पो …{Loading}…
तस्य प्रातःसवनेन कल्पो व्याख्यातः २
थिते
- The procedure of it (midday-pressing) is explained by (the explanation of) the morning-pressing.
तस्य प्रातःसवनेन कल्पो व्याख्यातः २
03 होतृचमसेन वसतीवरीभ्यो निःषिच्य …{Loading}…
होतृचमसेन वसतीवरीभ्यो निःषिच्य निग्राभ्याः करोति ३
होतृचमसेन वसतीवरीभ्यो निःषिच्य निग्राभ्याः करोति ३
04 द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न …{Loading}…
द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न विद्यन्ते ४
द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न विद्यन्ते ४
05 विस्रस्य राजानङ् ग्रावस्तुते …{Loading}…
विस्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छति ५
विस्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छति ५
06 असम्प्रेषितो ग्रावस्तोत्रीया अन्वाह …{Loading}…
असम्प्रेषितो ग्रावस्तोत्रीया अन्वाह ६
थिते
- Without (formally) being ordered (the Grāvastut) recites the verses praising the pressing-stones.
असम्प्रेषितो ग्रावस्तोत्रीया अन्वाह ६
07 तथैव महाभिषवः …{Loading}…
तथैव महाभिषवः ७
थिते
- The Mahābhisava (the great principal-pressing) (should be performed) in the same manner (as that of the morning - pressing).1
तथैव महाभिषवः ७
08 घोषवांस्तु …{Loading}…
घोषवांस्तु ८
थिते
- It is, however, accompanied by loud recitation (of the formulae).
घोषवांस्तु ८
09 इहेति …{Loading}…
संराधयन्तश्चाभिषुण्वन्तीहा३ इहेति ९
थिते
- Propitiating, they press out (the Soma) uttering (the words) ihā 3 iha.1
संराधयन्तश्चाभिषुण्वन्तीहा३ इहेति ९
10 उत्तमस्याभिषवस्य मध्यमे पर्याये …{Loading}…
उत्तमस्याभिषवस्य मध्यमे पर्याये बृहद्दधाति बृहद्बृहदिति १०
उत्तमस्याभिषवस्य मध्यमे पर्याये बृहद्दधाति बृहद्बृहदिति १०
11 उत्तमेऽभिषवे ऽभिषुते राजन्यसम्भृते …{Loading}…
उत्तमेऽभिषवे ऽभिषुते राजन्यसम्भृते देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्रमचुच्यवुः परमस्याः पराबतः । आस्मात्सधस्तादोरोरन्तरिक्षात् । आ सुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षांस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ११
थिते
- After the king (Soma) has been pressed out at the last pressing (and) before (the Soma-juice) is collected together (in the Ādhavanīya), the Pratiprasthātr̥ praises the pressing stones with devā gravāṇa indur indra….1
उत्तमेऽभिषवे ऽभिषुते राजन्यसम्भृते देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्रमचुच्यवुः परमस्याः पराबतः । आस्मात्सधस्तादोरोरन्तरिक्षात् । आ सुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षांस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ११
12 पशुपुरोडाशन् निरुप्य पयस्यावर्जं …{Loading}…
पशुपुरोडाशं निरुप्य पयस्यावर्जं सवनीयाः १२
पशुपुरोडाशं निरुप्य पयस्यावर्जं सवनीयाः १२
13 तेन प्रचर्य सवनीयैः …{Loading}…
तेन प्रचर्य सवनीयैः प्रचरति १३
तेन प्रचर्य सवनीयैः प्रचरति १३
14 समानन् तु स्विष्टकृदिडम् …{Loading}…
समानं तु स्विष्टकृदिडम् १४
थिते
- The Sviṣṭakr̥t and lḍā, however, should be common (to both the offerings).
समानं तु स्विष्टकृदिडम् १४
15 स कृताकृतः …{Loading}…
स कृताकृतः १५
थिते
- It (=animal-sacrificial-bread-offering) is optional.
स कृताकृतः १५
16 सम्भरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति …{Loading}…
सम्भरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति १६
थिते
- After the ritual beginning with the collection (of the Soma-juice) upto the (unbroken) stream (of Soma) has been performed, the Adhvaryu takes scoops.
सम्भरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति १६
इति प्रथमा कण्डिका