२९

01 यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्युक्तम् ...{Loading}...

यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्युक्तम् १

02 एवं विहितावुत्तरौ पर्यायौ ...{Loading}...

एवं विहितावुत्तरौ पर्यायौ २

03 ताभ्याम् प्रतिप्रस्थाता चरति ...{Loading}...

ताभ्यां प्रतिप्रस्थाता चरति । एतावन्नाना ३

04 इन्द्राय त्वेति द्वितीये ...{Loading}...

इन्द्राय त्वेति द्वितीये ग्रहणसादनौ सन्नमत्यर्धं चोक्थ्यशेषस्य गृह्णाति । पूर्ववत्स्थालीमभिमृशति । ब्राह्मणाच्छंसिचमसमुख्यांश्चमसानुन्नयति ४

05 नाभक्षितञ् चमसं स्तोत्रेणाभ्युपाकरोति ...{Loading}...

नाभक्षितं चमसं स्तोत्रेणाभ्युपाकरोति ५

06 न प्रतिप्रस्थातोर्ध्वपात्रस्य भक्षयति ...{Loading}...

न प्रतिप्रस्थातोर्ध्वपात्रस्य भक्षयति ६

07 मुख्ये सम्पातमवनयति ...{Loading}...

मुख्ये सम्पातमवनयति ७

08 इन्द्राग्निभ्यान् त्वेति तृतीये ...{Loading}...

इन्द्राग्निभ्यां त्वेति तृतीये ग्रहणसादनौ सन्नमति सर्वं चोक्थ्यशेषम् गृह्णाति । न स्थालीमभिमृशति ८

09 पूतभृतो बिल उदीचीनदशम् ...{Loading}...

पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तं सर्वं पूतभृत्यवनीयाच्छावाकचमसमुख्यांश्चमसानुन्नयन्सर्वं राजानमुन्नीय दशाभिः कलशौ मृष्ट्वा न्युब्जति ९

10 मुख्ये सम्पातमवनयति ...{Loading}...

मुख्ये सम्पातमवनयति १०

11 उक्थशा इत्याह प्रातःसवनम् ...{Loading}...

उक्थशा इत्याह प्रातःसवनं प्रतिगीर्य शस्त्रंशस्त्रं वा ११

12 असन्त्वरमाणाः पूर्वाभ्यां सवनाभ्याञ् ...{Loading}...

असन्त्वरमाणाः पूर्वाभ्यां सवनाभ्यां चरन्ति । संत्वरमाणास्तृतीयसवनेन १२

13 अग्निः प्रातःसवने पात्वस्मानिति ...{Loading}...

अग्निः प्रातःसवने पात्वस्मानिति संस्थिते सवन आहुतिं जुहोति १३

14 प्रशास्तः प्रसुव प्रसुहीति ...{Loading}...

प्रशास्तः प्रसुव प्रसुहीति वा सम्प्रेष्यति १४

15 सर्पतेति प्रत्याह ...{Loading}...

सर्पतेति प्रत्याह १५

16 येन प्रसर्पन्ति तेन ...{Loading}...

येन प्रसर्पन्ति तेन निःसर्पन्ति १६

17 सन्तिष्ठते प्रातःसवनम् प्रातःसवनम् ...{Loading}...

सन्तिष्ठते प्रातःसवनं प्रातःसवनम् १७

इत्येकोनत्रिंशी कण्डिका इत्यष्टमः पटलः इति द्वादशः प्रश्नः


  1. TS VI.5.1.4-5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. As described in XII.28. 11-16. ↩︎ ↩︎