२८

01 अनुप्रकम्पयन्ति नाराशंसान्वषट्कारानुवषट्कारौ …{Loading}…

अनुप्रकम्पयन्ति नाराशंसान्वषट्कारानुवषट्कारौ १

02 भक्षान्हरन्ति …{Loading}…

भक्षान्हरन्ति २

03 व्याख्यातो ग्रहस्य भक्षः …{Loading}…

व्याख्यातो ग्रहस्य भक्षः । तथा नाराशंसानां भक्षणाप्यायनसादनानि ३

04 वैश्वदेवं शुक्रपात्रेण गृह्णाति …{Loading}…

वैश्वदेवं शुक्रपात्रेण गृह्णाति । ओमासश्चर्षणीधृत इति ग्रहणसादनौ ४

05 असर्ज्यसर्जीति बर्हिर्भ्यां स्तोत्रमुपाकरोति …{Loading}…

असर्ज्यसर्जीति बर्हिर्भ्यां स्तोत्रमुपाकरोति ५

06 इडायै हिङ्कुरु तस्यै …{Loading}…

इडायै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादाज्यानां यजमानो जपति चतुर्होतारं च व्याचष्टे ६

07 स्तूयमाने च चतुर्होतारञ् …{Loading}…

स्तूयमाने च चतुर्होतारं जपति ७

08 चतुर्होतॄन्व्याख्यायाज्यैरुद्गायतीति विज्ञायते …{Loading}…

चतुर्होतॄन्व्याख्यायाज्यैरुद्गायतीति विज्ञायते ८

09 स्तुत ऋतुपात्रवर्जमैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च …{Loading}…

स्तुत ऋतुपात्रवर्जमैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ९

10 सर्वभक्षाश्चमसा भवन्ति …{Loading}…

सर्वभक्षाश्चमसा भवन्ति १०

11 उपयामगृहीतोऽसि मित्रावरुणाभ्यान् त्वा …{Loading}…

उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवा युवमुक्थ्येभ्य उक्थ्या उवमित्युक्थ्यपात्रेणोक्थ्यतृतीयं गृहीत्वैष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयित्वा पुनर्हविरसीति स्थालीमभिमृशति ११

12 यन्मुख्याश्चमसा भवन्ति तस्य …{Loading}…

यन्मुख्याश्चमसा भवन्ति तस्य प्रतिगृणाति तं च प्रतिभक्षयति १२

13 मैत्रावरुणचमसमुख्यांश्चमसानुन्नीय पूर्ववत्स्तोत्रमुपाकरोति …{Loading}…

मैत्रावरुणचमसमुख्यांश्चमसानुन्नीय पूर्ववत्स्तोत्रमुपाकरोति १३

14 स्तुते पूर्ववच्छस्त्रम् प्रतिगीर्य …{Loading}…

स्तुते पूर्ववच्छस्त्रं प्रतिगीर्य ग्रहमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युक्थशा यज सोमानामिति । वषट्कृतानुवषट्कृते जुह्वति । भक्षान्हरन्ति १४

15 एवमत ऊर्ध्वन् नाराशंसवर्जङ् …{Loading}…

एवमत ऊर्ध्वं नाराशंसवर्जं गणेषु चर्या १५

16 देवेभ्यस्त्वा देवा युवम् …{Loading}…

देवेभ्यस्त्वा देवा युवं पृणज्मि यज्ञस्यायुष इति मुख्ये सम्पातमवनयति १६

इत्यष्टाविंशी कण्डिका


  1. Cf. AB VII.24. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XIII.25.16-23. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XII.25.24. ↩︎ ↩︎ ↩︎ ↩︎

  4. See XII.25.27. ↩︎ ↩︎ ↩︎

  5. See XII.27.18-28.2. ↩︎