२७

01 द्वादश त्रयोदश चतुर्दश ...{Loading}...

द्वादश त्रयोदश चतुर्दश वा गृह्यन्ते १

02 द्वादशसु सह प्रथमौ ...{Loading}...

द्वादशसु सह प्रथमौ गृह्येते । सहोत्तमौ २

03 त्रयोदशसूत्तमयोः सह ग्रहणप्रदाने ...{Loading}...

त्रयोदशसूत्तमयोः सह ग्रहणप्रदाने ३

04 तथा चतुर्दशसु प्रथमोत्तमयोः ...{Loading}...

तथा चतुर्दशसु प्रथमोत्तमयोः ४

05 संसर्पोऽस्यंहस्पत्याय त्वेति त्रयोदशचतुर्दशौ ...{Loading}...

संसर्पोऽस्यंहस्पत्याय त्वेति त्रयोदशचतुर्दशौ वावगृह्येते ५

06 अध्वर्यू यजतङ् गृहपते ...{Loading}...

अध्वर्यू यजतं गृहपते यजेत्यभिज्ञायोभयत्रातिप्रेष्यति होतरेतद्यजेति ६

07 एवङ् गृहपतिः स्वे ...{Loading}...

एवं गृहपतिः स्वे प्रैषान्ते ७

08 द्विदेवत्यवत्सम्पातौ व्यवनीयाभक्षितेन पात्रेणाध्वर्युरैन्द्राग्नङ् ...{Loading}...

द्विदेवत्यवत्सम्पातौ व्यवनीयाभक्षितेन पात्रेणाध्वर्युरैन्द्राग्नं गृह्णाति । इन्द्राग्नी आगतं सुतमिति ग्रहणसादनौ । प्रतिप्रस्थाता हरति भक्षम् ८

09 उभावध्वर्यू यथावषट्कृतम् प्रतिभक्षयतः ...{Loading}...

उभावध्वर्यू यथावषट्कृतं प्रतिभक्षयतः ९

10 सर्वेषां सोमपात्राणाम् भक्षितानाम् ...{Loading}...

सर्वेषां सोमपात्राणां भक्षितानां मार्जालीये प्रक्षालनम् १०

11 एतत्पात्रमादायाध्वर्युः सदोबिले प्राङ्मुख ...{Loading}...

एतत्पात्रमादायाध्वर्युः सदोबिले प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रं प्रतिगरिष्यञ्जपति ११

12 ते शॐसावोमिति होतुरभिज्ञाय ...{Loading}...

ते शॐसावोमिति होतुरभिज्ञाय प्रदक्षिणमावर्तमानः शॐसा मोद इवेति प्रत्याह्वयते। शंसा मोद इवेति वा १२

13 ऋतुपात्रन् धारयमाणः सदोबिले ...{Loading}...

ऋतुपात्रं धारयमाणः सदोबिले प्रत्यङ्तिष्ठन्प्रतिगृणाति । प्रह्वो वा १३

14 ओथा मोद इवेत्यर्धर्चेषु ...{Loading}...

ओथा मोद इवेत्यर्धर्चेषु । ओमोथा मोद इवेत्यवसानेषु । प्रणव एवान्तः १४

15 ओथा मोद इवं ...{Loading}...

ओथा मोद इवं होतर्मोद इवमोथा मोद इवोमिति विकल्पन्ते १५

16 नार्धर्चाल्लुप्यते नाभिप्रतिगृणाति ...{Loading}...

नार्धर्चाल्लुप्यते । नाभिप्रतिगृणाति १६

17 शॐसा मोद इवौथा ...{Loading}...

शॐसा मोद इवौथा मोद इवेति व्याहावेषूभयं करोति १७

18 शस्त्रम् प्रतिगीर्य इमध्वयुरादत्ते ...{Loading}...

शस्त्रं प्रतिगीर्य इमध्वयुरादत्ते । चमसांश्चमसाध्वर्यवः १८

19 आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युक्थशा ...{Loading}...

आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युक्थशा यज सोमस्येति । वषट्कृते जुहोति १९

इति सप्तविंशी कण्डिका


  1. Cf. TS VI.5.3.2; cp. MS IV.6.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. MS IV.6.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.4.15.a-b.a. ↩︎ ↩︎ ↩︎

  4. TS I.4.15.b.b. ↩︎ ↩︎