२६

01 उपविशत्यच्छावाको बहिः सदसोऽग्रेण ...{Loading}...

उपविशत्यच्छावाको बहिः सदसोऽग्रेण स्वं धिष्णियम् १

02 तस्मै पुरोडाशशकलमादधदाहाच्छावाक वदस्व ...{Loading}...

तस्मै पुरोडाशशकलमादधदाहाच्छावाक वदस्व यत्ते वाद्यमिति २

03 यदास्य विजानात्युपो अस्मान्ब्राह्मणान्ब्राह्मणा ...{Loading}...

यदास्य विजानात्युपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमित्यथैनं होत्र आवेदयत्यच्छावाको वा अयमुपहवमिच्छते तं होतरुपह्वयस्वेति ३

04 उत नो गाव ...{Loading}...

उत नो गाव उपहूता उपहूतेति होतुरभिज्ञायोन्नीयमानायानुब्रूह्यच्छावाकस्य चमसाध्वर्यो उन्नयस्वोभयतः शुक्रं कुरुष्वेति ४

05 तमादायाहवनीयङ् गत्वाश्राव्य प्रत्याश्राविते ...{Loading}...

तमादायाहवनीयं गत्वाश्राव्य प्रत्याश्राविते सम्प्रेष्यत्यच्छावाक यजेत् ५

06 वषट्कृतानुवषट्कृते हुत्वा हरति ...{Loading}...

वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् ६

07 तेन न सम्भक्षयति ...{Loading}...

तेन न सम्भक्षयति । नास्मिन्नुपहवमिच्छते । यद्यस्मिन्नुपहवमिच्छेत भक्षयेत्येनं ब्रूयात् ७

08 भक्षिताप्यायितमन्तरा नेष्टुराग्नीध्रस्य च ...{Loading}...

भक्षिताप्यायितमन्तरा नेष्टुराग्नीध्रस्य च चमसौ सादयित्वर्तुग्रहैः प्रचरतः ८

09 द्रोणकलशाद्गृह्यन्ते न साद्यन्ते ...{Loading}...

द्रोणकलशाद्गृह्यन्ते । न साद्यन्ते ९

10 पूर्वेषां शेषेषूत्तरानभिगृह्णीतः ...{Loading}...

पूर्वेषां शेषेषूत्तरानभिगृह्णीतः १०

11 पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थातोपयामगृहीतोऽसि ...{Loading}...

पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थातोपयामगृहीतोऽसि मधुश्चेत्येतैः प्रतिमन्त्रम् ११

12 मधवे त्वा माधवाय ...{Loading}...

मधवे त्वा माधवाय त्वेत्येके समामनन्ति १२

13 पुरस्तादुपयामाः सर्वे ...{Loading}...

पुरस्तादुपयामाः सर्वे १३

14 नान्योऽन्यमनुप्रपद्येत प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्रपद्यते ...{Loading}...

नान्योऽन्यमनुप्रपद्येत । प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्रपद्यते । प्रसिद्धं प्रतिप्रस्थातोत्तरेण १४

15 द्वार्येव व्यतीतः ...{Loading}...

द्वार्येव व्यतीतः १५

16 प्रविशन्तमेवाध्वर्युम् प्रतिप्रस्थाता ग्रहेण ...{Loading}...

प्रविशन्तमेवाध्वर्युं प्रतिप्रस्थाता ग्रहेण परिप्रगृह्णाति । निष्क्रामन्तं पात्रेण १६

17 ऋतुना प्रेष्येति त्रिष्वाद्येष्वध्वर्युः ...{Loading}...

ऋतुना प्रेष्येति त्रिष्वाद्येष्वध्वर्युः सम्प्रेष्यति । एवं प्रतिप्रस्थाता १७

18 पात्रयोर्मुखे पर्यावृत्यर्तुभिः प्रेष्येति ...{Loading}...

पात्रयोर्मुखे पर्यावृत्यर्तुभिः प्रेष्येति द्वयोरध्वर्युः । एवं प्रतिप्रस्थाता १८

19 पुनः पर्यावृत्यर्तुना प्रेष्येति ...{Loading}...

पुनः पर्यावृत्यर्तुना प्रेष्येति सकृदध्वर्युः । एवं प्रतिप्रस्थाता १९

इति षड्विंशी कण्डिका


  1. Cf. KB XXVIII.4; cp. KS XXVI.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KB XXVIII.4-5; cp. AB VI.14; ŚB IV.3.1.1. The Acchāvāka now recites RV V.25.1-3. (See KB XXVIII.5). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XII.21.15. For filling, the Acchāvāka recites R̥V VI.42.1-4. ↩︎